महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 92 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 92 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 92
Maharishi Valmiki Ramayan Yuddha Kand Sarg 92


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्विनवतितमः सर्गः ॥६-९२॥



ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितो वधम्।
आचचक्षुरभिज्ञाय दशग्रीवाय सत्वराः॥ १॥


युद्धे हतो महाराज लक्ष्मणेन तवात्मजः।
विभीषणसहायेन मिषतां नो महाद्युतिः॥ २॥


शूरः शूरेण संगम्य संयुगेष्वपराजितः।
लक्ष्मणेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित्॥ ३॥


गतः स परमाँल्लोकान् शरैः संतर्प्य लक्ष्मणम्।
स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्॥ ४॥


घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत्।
उपलभ्य चिरात् संज्ञां राजा राक्षसपुंगवः॥ ५॥


पुत्रशोकाकुलो दीनो विललापाकुलेन्द्रियः।
हा राक्षसचमूमुख्य मम वत्स महाबल॥ ६॥


जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः।
ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि॥ ७॥


मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि।
अद्य वैवस्वतो राजा भूयो बहुमतो मम॥ ८॥


येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा।
एष पन्थाः सुयोधानां सर्वामरगणेष्वपि।
यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति॥ ९॥


अद्य देवगणाः सर्वे लोकपाला महर्षयः।
हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः॥ १०॥


अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना।
एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे॥ ११॥


अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम्।
करेणुसङ्घस्य यथा निनादं गिरिगह्वरे॥ १२॥


यौवराज्यं च लङ्कां च रक्षांसि च परंतप।
मातरं मां च भार्याश्च क्व गतोऽसि विहाय नः॥ १३॥


मम नाम त्वया वीर गतस्य यमसादनम्।
प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे॥ १४॥


स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे।
मम शल्यमनुद‍्धृत्य क्व गतोऽसि विहाय नः॥ १५॥


एवमादिविलापार्तं रावणं राक्षसाधिपम्।
आविवेश महान् कोपः पुत्रव्यसनसम्भवः॥ १६॥


प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः।
दीप्तं संदीपयामासुर्घर्मेऽर्कमिव रश्मयः॥ १७॥


ललाटे भ्रुकुटीभिश्च संगताभिर्व्यरोचत।
युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः॥ १८॥


कोपाद् विजृम्भमाणस्य वक्त्राद् व्यक्तमिव ज्वलन्।
उत्पपात सधूमाग्निर्वृत्रस्य वदनादिव॥ १९॥


स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः।
समीक्ष्य रावणो बुद्‍ध्या वैदेह्या रोचयद् वधम्॥ २०॥


तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनापि च।
रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः॥ २१॥


घोरं प्रकृत्या रूपं तत् तस्य क्रोधाग्निमूर्च्छितम्।
बभूव रूपं क्रुद्धस्य रुद्रस्येव दुरासदम्॥ २२॥


तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः।
दीपाभ्यामिव दीप्ताभ्यां सार्चिषः स्नेहबिन्दवः॥ २३॥


दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः।
यन्त्रस्याकृष्यमाणस्य मथ्नतो दानवैरिव॥ २४॥


कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत।
तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे॥ २५॥


तमन्तकमिव क्रुद्धं चराचरचिखादिषुम्।
वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः॥ २६॥


ततः परमसंक्रुद्धो रावणो राक्षसाधिपः।
अब्रवीद् रक्षसां मध्ये संस्तम्भयिषुराहवे॥ २७॥


मया वर्षसहस्राणि चरित्वा परमं तपः।
तेषु तेष्ववकाशेषु स्वयंभूः परितोषितः॥ २८॥


तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयंभुवः।
नासुरेभ्यो न देवेभ्यो भयं मम कदाचन॥ २९॥


कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम्।
देवासुरविमर्देषु न च्छिन्नं वज्रमुष्टिभिः॥ ३०॥


तेन मामद्य संयुक्तं रथस्थमिह संयुगे।
प्रतीयात् कोऽद्य मामाजौ साक्षादपि पुरंदरः॥ ३१॥


यत् तदाभिप्रसन्नेन सशरं कार्मुकं महत्।
देवासुरविमर्देषु मम दत्तं स्वयंभुवा॥ ३२॥


अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम।
रामलक्ष्मणयोरेव वधाय परमाहवे॥ ३३॥


स पुत्रवधसंतप्तः क्रूरः क्रोधवशं गतः।
समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत॥ ३४॥


प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः।
दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान्॥ ३५॥


मायया मम वत्सेन वञ्चनार्थं वनौकसाम्।
किंचिदेव हतं तत्र सीतेयमिति दर्शितम्॥ ३६॥


तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः।
वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम्॥ ३७॥


इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत्।
उद्‍धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम्॥ ३८॥


निष्पपात स वेगेन सभार्यः सचिवैर्वृतः।
रावणः पुत्रशोकेन भृशमाकुलचेतनः॥ ३९॥


संक्रुद्धः खड्गमादाय सहसा यत्र मैथिली।
व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं विचुक्रुशुः॥ ४०॥


ऊचुश्चान्योन्यमालिङ्‍ग्य संक्रुद्धं प्रेक्ष्य राक्षसम्।
अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः॥ ४१॥


लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः।
बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः॥ ४२॥


त्रिषु लोकेषु रत्नानि भुङ्‍क्ते आहृत्य रावणः।
विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि॥ ४३॥


तेषां संजल्पमानानामशोकवनिकां गताम्।
अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः॥ ४४॥


वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः।
अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव॥ ४५॥


मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता।
ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम्॥ ४६॥


तं निशम्य सनिस्त्रिंशं व्यथिता जनकात्मजा।
निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम्॥ ४७॥


सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत्।
यथायं मामभिक्रुद्धः समभिद्रवति स्वयम्॥ ४८॥


वधिष्यति सनाथां मामनाथामिव दुर्मतिः।
बहुशश्चोदयामास भर्तारं मामनुव्रताम्॥ ४९॥


भार्या मम भवस्वेति प्रत्याख्यातो ध्रुवं मया।
सोऽयं मामनुपस्थाने व्यक्तं नैराश्यमागतः॥ ५०॥


क्रोधमोहसमाविष्टो व्यक्तं मां हन्तुमुद्यतः।
अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ॥ ५१॥


मन्निमित्तमनार्येण समरेऽद्य निपातितौ।
भैरवो हि महान् नादो राक्षसानां श्रुतो मया॥ ५२॥


बहूनामिह हृष्टानां तथा विक्रोशतां प्रियम्।
अहो धिङ्मन्निमित्तोऽयं विनाशो राजपुत्रयोः॥ ५३॥


अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ।
विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः॥ ५४॥


हनूमतस्तु तद् वाक्यं न कृतं क्षुद्रया मया।
यद्यहं तस्य पृष्ठेन तदायासमनिर्जिता॥ ५५॥


नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती।
मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति॥ ५६॥


एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि।
सा हि जन्म च बाल्यं च यौवनं च महात्मनः॥ ५७॥


धर्मकार्याणि रूपं च रुदती संस्मरिष्यति।
निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना॥ ५८॥


अग्निमावेक्ष्यते नूनमपो वापि प्रवेक्ष्यति।
धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम्॥ ५९॥


यन्निमित्तमिमं शोकं कौसल्या प्रतिपत्स्यते।
इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्॥ ६०॥


रोहिणीमिव चन्द्रेण बिना ग्रहवशं गताम्।
एतस्मिन्नन्तरे तस्य अमात्यः शीलवान् शुचिः॥ ६१॥


सुपार्श्वो नाम मेधावी रावणं रक्षसां वरम्।
निवार्यमाणः सचिवैरिदं वचनमब्रवीत्॥ ६२॥


कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज।
हन्तुमिच्छसि वैदेहीं क्रोधाद् धर्ममपास्य च॥ ६३॥


वेदविद्याव्रतस्नातः स्वकर्मनिरतस्तथा।
स्त्रियः कस्माद् वधं वीर मन्यसे राक्षसेश्वर॥ ६४॥


मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव।
तस्मिन्नेव सहास्माभिराहवे क्रोधमुत्सृज॥ ६५॥


अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी।
कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः॥ ६६॥


शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः।
हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम्॥ ६७॥


स तद् दुरात्मा सुहृदा निवेदितं
वचः सुधर्म्यं प्रतिगृह्य रावणः।
गृहं जगामाथ ततश्च वीर्यवान्
पुनः सभां च प्रययौ सुहृद्‍वृतः॥ ६८॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विनवतितमः सर्गः ॥ ९२ ॥

Popular Posts