महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 82 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 82 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 82
Maharishi Valmiki Ramayan Yuddha Kand Sarg 82


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्व्यशीततमः सर्गः ॥६-८२॥


श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमस्वनम्।
वीक्ष्यमाणा दिशः सर्वा दुद्रुवुर्वानरा भृशम्॥ १॥


तानुवाच ततः सर्वान् हनूमान् मारुतात्मजः।
विषण्णवदनान् दीनांस्त्रस्तान् विद्रवतः पृथक्॥ २॥


कस्माद् विषण्णवदना विद्रवध्वं प्लवंगमाः।
त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम्॥ ३॥


पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे।
शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम्॥ ४॥


एवमुक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता।
शैलशृङ्गान् द्रुमांश्चैव जगृहुर्हृष्टमानसाः॥ ५॥


अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः।
परिवार्य हनूमन्तमन्वयुश्च महाहवे॥ ६॥


स तैर्वानरमुख्यैस्तु हनूमान् सर्वतो वृतः।
हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम्॥ ७॥


स राक्षसानां कदनं चकार सुमहाकपिः।
वृतो वानरसैन्येन कालान्तकयमोपमः॥ ८॥


स तु शोकेन चाविष्टः कोपेन महता कपिः।
हनूमान् रावणिरथे महतीं पातयच्छिलाम्॥ ९॥


तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा।
विधेयाश्वसमायुक्तः विदूरमपवाहितः॥ १०॥


तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम्।
विवेश धरणीं भित्त्वा सा शिला व्यर्थमुद्यता॥ ११॥


पतितायां शिलायां तु व्यथिता रक्षसां चमूः।
निपतन्त्या च शिलया राक्षसा मथिता भृशम्॥ १२॥


तमभ्यधावन् शतशो नदन्तः काननौकसः।
ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः॥ १३॥


क्षिपन्तीन्द्रजितं संख्ये वानरा भीमविक्रमाः।
वृक्षशैलमहावर्षं विसृजन्तः प्लवंगमाः॥ १४॥


शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वनैः।
वानरैस्तैर्महाभीमैर्घोररूपा निशाचराः॥ १५॥


वीर्यादभिहता वृक्षैर्व्यचेष्टन्त रणक्षितौ।
स सैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित्॥ १६॥


प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ।
स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः॥ १७॥


जघान कपिशार्दूलान् सुबहून् दृढविक्रमः।
शूलैरशनिभिः खड्गैः पट्टिशैः शूलमुद‍्गरैः॥ १८॥


ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे।
सुस्कन्धविटपैः शैलैः शिलाभिश्च महाबलः॥ १९॥


हनूमान् कदनं चक्रे रक्षसां भीमकर्मणाम्।
संनिवार्य परानीकमब्रवीत् तान् वनौकसः॥ २०॥


हनूमान् संनिवर्तध्वं न नः साध्यमिदं बलम्।
त्यक्त्वा प्राणान् विचेष्टन्तो रामप्रियचिकीर्षवः॥ २१॥


यन्निमित्तं हि युध्यामो हता सा जनकात्मजा।
इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च॥ २२॥


तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम्।
इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान्॥ २३॥


शनैः शनैरसंत्रस्तः सबलः संन्यवर्तत।
ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः॥ २४॥


स होतुकामो दुष्टात्मा गतश्चैत्यं निकुम्भिलाम्।
निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित्॥ २५॥


यज्ञभूम्यां ततो गत्वा पावकस्तेन रक्षसा।
हूयमानः प्रजज्वाल होमशोणितभुक् तदा॥ २६॥


सार्चिःपिनद्धो ददृशे होमशोणिततर्पितः।
संध्यागत इवादित्यः सुतीव्रोऽग्निः समुत्थितः॥ २७॥


अथेन्द्रजिद् राक्षसभूतये तु
जुहाव हव्यं विधिना विधानवित्।
दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते
महासमूहेषु नयानयज्ञाः॥ २८॥




इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्यशीततमः सर्गः ॥ ८२ ॥

Popular Posts