महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 4 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 4 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 4
Maharishi Valmiki Ramayan Yuddha Kand Sarg 4



श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्थः सर्गः ॥६-४॥


श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः।
ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः॥ १॥


यन्निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः।
क्षिप्रमेनां वधिष्यामि सत्यमेतद् ब्रवीमि ते॥ २॥


अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचय।
युक्तो मुहूर्ते विजये प्राप्तो मध्यं दिवाकरः॥ ३॥


सीतां हृत्वा तु तद् यातु क्वासौ यास्यति जीवितः।
सीता श्रुत्वाभियानं मे आशामेष्यति जीविते।
जीवितान्तेऽमृतं स्पृष्ट्वा पीत्वामृतमिवातुरः॥ ४॥


उत्तराफाल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते।
अभिप्रयाम सुग्रीव सर्वानीकसमावृताः॥ ५॥


निमित्तानि च पश्यामि यानि प्रादुर्भवन्ति वै।
निहत्य रावणं सीतामानयिष्यामि जानकीम्॥ ६॥


उपरिष्टाद्धि नयनं स्फुरमाणमिमं मम।
विजयं समनुप्राप्तं शंसतीव मनोरथम्॥ ७॥


ततो वानरराजेन लक्ष्मणेन सुपूजितः।
उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः॥ ८॥


अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्।
वृतः शतसहस्रेण वानराणां तरस्विनाम्॥ ९॥


फलमूलवता नील शीतकाननवारिणा।
पथा मधुमता चाशु सेनां सेनापते नय॥ १०॥


दूषयेयुर्दुरात्मानः पथि मूलफलोदकम्।
राक्षसाः पथि रक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः॥ ११॥


निम्नेषु वनदुर्गेषु वनेषु च वनौकसः।
अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम्॥ १२॥


यत्तु फल्गु बलं किंचित् तदत्रैवोपपद्यताम्।
एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुज्यताम्॥ १३॥


सागरौघनिभं भीममग्रानीकं महाबलाः।
कपिसिंहाः प्रकर्षन्तु शतशोऽथ सहस्रशः॥ १४॥


गजश्च गिरिसंकाशो गवयश्च महाबलः।
गवाक्षश्चाग्रतो यातु गवां दृप्त इवर्षभः॥ १५॥


यातु वानरवाहिन्या वानरः प्लवतां पतिः।
पालयन् दक्षिणं पार्श्वमृषभो वानरर्षभः॥ १६॥


गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः।
यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः॥ १७॥


यास्यामि बलमध्येऽहं बलौघमभिहर्षयन्।
अधिरुह्य हनूमन्तमैरावतमिवेश्वरः॥ १८॥


अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः।
सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा॥ १९॥


जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः।
ऋक्षराजो महाबाहुः कुक्षिं रक्षन्तु ते त्रयः॥ २०॥


राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः।
व्यादिदेश महावीर्यो वानरान् वानरर्षभः॥ २१॥


ते वानरगणाः सर्वे समुत्पत्य महौजसः।
गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा॥ २२॥


ततो वानरराजेन लक्ष्मणेन च पूजितः।
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्॥ २३॥


शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि।
वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा॥ २४॥


तं यान्तमनुयान्ती सा महती हरिवाहिनी।
हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणापि पालिताः॥ २५॥


आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः।
क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम्॥ २६॥


भक्षयन्तः सुगन्धीनि मधूनि च फलानि च।
उद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः॥ २७॥


अन्योन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति च।
पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान्॥ २८॥


रावणो नो निहन्तव्यः सर्वे च रजनीचराः।
इति गर्जन्ति हरयो राघवस्य समीपतः॥ २९॥


पुरस्तादृषभो नीलो वीरः कुमुद एव च।
पन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह॥ ३०॥


मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च।
बलिभिर्बहुभिर्भीमैर्वृतः शत्रुनिबर्हणः॥ ३१॥


हरिः शतबलिर्वीरः कोटिभिर्दशभिर्वृतः।
सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम्॥ ३२॥


कोटीशतपरीवारः केसरी पनसो गजः।
अर्कश्च बहुभिः पार्श्वमेकं तस्याभिरक्षति॥ ३३॥


सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतौ।
सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः॥ ३४॥


तेषां सेनापतिर्वीरो नीलो वानरपुंगवः।
सम्पतन् प्लवतां श्रेष्ठस्तद् बलं पर्यवारयत्॥ ३५॥


दरीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः।
सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवंगमान्॥ ३६॥


एवं ते हरिशार्दूला गच्छन्ति बलदर्पिताः।
अपश्यन्त गिरिश्रेष्ठं सह्यं गिरिशतायुतम्॥ ३७॥


सरांसि च सुफुल्लानि तटाकानि वराणि च।
रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत्॥ ३८॥


वर्जयन् नागराभ्याशांस्तथा जनपदानपि।
सागरौघनिभं भीमं तद् वानरबलं महत्॥ ३९॥


निःससर्प महाघोरं भीमघोषमिवार्णवम्।
तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः॥ ४०॥


तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः।
कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ॥ ४१॥


महद्भ्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ।
ततो वानरराजेन लक्ष्मणेन सुपूजितः॥ ४२॥


जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्।
तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा॥ ४३॥


उवाच परिपूर्णार्थं पूर्णार्थप्रतिभानवान्।
हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम्॥ ४४॥


समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि।
महान्ति च निमित्तानि दिवि भूमौ च राघव॥ ४५॥


शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये।
अनुवाति शिवो वायुः सेनां मृदुहितः सुखः॥ ४६॥


पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः।
प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः॥ ४७॥


उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः।
ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः।
अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम्॥ ४८॥


त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः।
पितामहः पुरोऽस्माकमिक्ष्वाकूणां महात्मनाम्॥ ४९॥


विमले च प्रकाशेते विशाखे निरुपद्रवे।
नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम्॥ ५०॥


नैर्ऋतं नैर्ऋतानां च नक्षत्रमतिपीड्यते।
मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना॥ ५१॥


सर्वं चैतद् विनाशाय राक्षसानामुपस्थितम्।
काले कालगृहीतानां नक्षत्रं ग्रहपीडितम्॥ ५२॥


प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च।
प्रवान्ति नाधिका गन्धा यथर्तुकुसुमा द्रुमाः॥ ५३॥


व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो।
देवानामिव सैन्यानि संग्रामे तारकामये।
एवमार्य समीक्ष्यैतत् प्रीतो भवितुमर्हसि॥ ५४॥


इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत्।
अथावृत्य महीं कृत्स्नां जगाम हरिवाहिनी॥ ५५॥


ऋक्षवानरशार्दूलैर्नखद्रंष्ट्रायुधैरपि।
कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः॥ ५६॥


भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम्।
सपर्वतवनाकाशं दक्षिणां हरिवाहिनी॥ ५७॥


छादयन्ती ययौ भीमा द्यामिवाम्बुदसंततिः।
उत्तरन्त्याश्च सेनायाः सततं बहुयोजनम्॥ ५८॥


नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत्।
सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वतान्॥ ५९॥


समान् भूमिप्रदेशांश्च वनानि फलवन्ति च।
मध्येन च समन्ताच्च तिर्यक् चाधश्च साविशत्॥ ६०॥


समावृत्य महीं कृत्स्नां जगाम महती चमूः।
ते हृष्टवदनाः सर्वे जग्मुर्मारुतरंहसः॥ ६१॥


हरयो राघवस्यार्थे समारोपितविक्रमाः।
हर्षं वीर्यं बलोद्रेकान् दर्शयन्तः परस्परम्॥ ६२॥


यौवनोत्सेकजाद् दर्पाद् विविधांश्चक्रुरध्वनि।
तत्र केचिद् द्रुतं जग्मुरुत्पेतुश्च तथापरे॥ ६३॥


केचित् किलकिलां चक्रुर्वानरा वनगोचराः।
प्रास्फोटयंश्च पुच्छानि संनिजघ्नुः पदान्यपि॥ ६४॥


भुजान् विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे।
आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः॥ ६५॥


महानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिरे।
ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः॥ ६६॥


जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः।
ततः शतसहस्रैश्च कोटिभिश्च सहस्रशः॥ ६७॥


वानराणां सुघोराणां श्रीमत्परिवृता मही।
सा स्म याति दिवारात्रं महती हरिवाहिनी॥ ६८॥


प्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः।
वानरास्त्वरिता यान्ति सर्वे युद्धाभिनन्दिनः।
प्रमोक्षयिषवः सीतां मुहूर्तं क्वापि नावसन्॥ ६९॥


ततः पादपसम्बाधं नानावनसमायुतम्।
सह्यपर्वतमासाद्य वानरास्ते समारुहन्॥ ७०॥


काननानि विचित्राणि नदीप्रस्रवणानि च।
पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च॥ ७१॥


चम्पकांस्तिलकांश्चूतानशोकान् सिन्दुवारकान्।
तिनिशान् करवीरांश्च भञ्जन्ति स्म प्लवंगमाः॥ ७२॥


अङ्कोलांश्च करञ्जांश्च प्लक्षन्यग्रोधपादपान्।
जम्बूकामलकान् नीपान् भञ्जन्ति स्म प्लवंगमाः॥ ७३॥


प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः।
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान्॥ ७४॥


मारुतः सुखसंस्पर्शो वाति चन्दनशीतलः।
षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु॥ ७५॥


अधिकं शैलराजस्तु धातुभिस्तु विभूषितः।
धातुभ्यः प्रसृतो रेणुर्वायुवेगेन घट्टितः॥ ७६॥


सुमहद्वानरानीकं छादयामास सर्वतः।
गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः॥ ७७॥


केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः।
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः॥ ७८॥


चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा।
रञ्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः॥ ७९॥


चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः।
मुचुलिन्दार्जुनाश्चैव शिंशपाः कुटजास्तथा॥ ८०॥


हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा।
नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा॥ ८१॥


प्रीयमाणैः प्लवंगैस्तु सर्वे पर्याकुलीकृताः।
वाप्यस्तस्मिन् गिरौ रम्याः पल्वलानि तथैव च॥ ८२॥


चक्रवाकानुचरिताः कारण्डवनिषेविताः।
प्लवैः क्रौञ्चैश्च संकीर्णा वराहमृगसेविताः॥ ८३॥


ऋक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः।
व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः॥ ८४॥


पद्मैः सौगन्धिकैः फुल्लैः कुमुदैश्चोत्पलैस्तथा।
वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः॥ ८५॥


तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा।
स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः॥ ८६॥


अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः।
फलान्यमृतगन्धीनि मूलानि कुसुमानि च॥ ८७॥


बभञ्जुर्वानरास्तत्र पादपानां मदोत्कटाः।
द्रोणमात्रप्रमाणानि लम्बमानानि वानराः॥ ८८॥


ययुः पिबन्तः स्वस्थास्ते मधूनि मधुपिङ्गलाः।
पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः॥ ८९॥


विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः।
वृक्षेभ्योऽन्ये तु कपयो नदन्तो मधु दर्पिताः॥ ९०॥


अन्ये वृक्षान् प्रपद्यन्ते प्रपिबन्त्यपि चापरे।
बभूव वसुधा तैस्तु सम्पूर्णा हरिपुङ्गवैः।
यथा कमलकेदारैः पक्वैरिव वसुंधरा॥ ९१॥


महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः।
आरुरोह महाबाहुः शिखरं द्रुमभूषितम्॥ ९२॥


ततः शिखरमारुह्य रामो दशरथात्मजः।
कूर्ममीनसमाकीर्णमपश्यत् सलिलाशयम्॥ ९३॥


ते सह्यं समतिक्रम्य मलयं च महागिरिम्।
आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम्॥ ९४॥


अवरुह्य जगामाशु वेलावनमनुत्तमम्।
रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः॥ ९५॥


अथ धौतोपलतलां तोयौघैः सहसोत्थितैः।
वेलामासाद्य विपुलां रामो वचनमब्रवीत्॥ ९६॥


एते वयमनुप्राप्ताः सुग्रीव वरुणालयम्।
इहेदानीं विचिन्ता सा या नः पूर्वमुपस्थिता॥ ९७॥


अतः परमतीरोऽयं सागरः सरितां पतिः।
न चायमनुपायेन शक्यस्तरितुमर्णवः॥ ९८॥


तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह।
यथेदं वानरबलं परं पारमवाप्नुयात्॥ ९९॥


इतीव स महाबाहुः सीताहरणकर्शितः।
रामः सागरमासाद्य वासमाज्ञापयत् तदा॥ १००॥


सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गव।
सम्प्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने॥ १०१॥


स्वां स्वां सेनां समुत्सृज्य मा च कश्चित् कुतो व्रजेत्।
गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः॥ १०२॥


रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः।
सेनां निवेशयत् तीरे सागरस्य द्रुमायुते॥ १०३॥


विरराज समीपस्थं सागरस्य च तद् बलम्।
मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः॥ १०४॥


वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः।
निविष्टाश्च परं पारं काङ्क्षमाणा महोदधेः॥ १०५॥


तेषां निविशमानानां सैन्यसंनाहनिःस्वनः।
अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे॥ १०६॥


सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता।
त्रिधा निविष्टा महती रामस्यार्थपराभवत्॥ १०७॥


सा महार्णवमासाद्य हृष्टा वानरवाहिनी।
वायुवेगसमाधूतं पश्यमाना महार्णवम्॥ १०८॥


दूरपारमसम्बाधं रक्षोगणनिषेवितम्।
पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः॥ १०९॥


चण्डनक्रग्राहघोरं क्षपादौ दिवसक्षये।
हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः॥ ११०॥


चन्द्रोदये समुद्भूतं प्रतिचन्द्रसमाकुलम्।
चण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः॥ १११॥


दीप्तभोगैरिवाकीर्णं भुजङ्गैर्वरुणालयम्।
अवगाढं महासत्त्वैर्नानाशैलसमाकुलम्॥ ११२॥


सुदुर्गं दुर्गमार्गं तमगाधमसुरालयम्।
मकरैर्नागभोगैश्च विगाढा वातलोलिताः।
उत्पेतुश्च निपेतुश्च प्रहृष्टा जलराशयः॥ ११३॥


अग्निचूर्णमिवाविद्धं भास्वराम्बुमहोरगम्।
सुरारिनिलयं घोरं पातालविषयं सदा॥ ११४॥


सागरं चाम्बरप्रख्यमम्बरं सागरोपमम्।
सागरं चाम्बरं चेति निर्विशेषमदृश्यत॥ ११५॥


सम्पृक्तं नभसाप्यम्भः सम्पृक्तं च नभोऽम्भसा।
तादृग्रूपे स्म दृश्येते तारारत्नसमाकुले॥ ११६॥


समुत्पतितमेघस्य वीचिमालाकुलस्य च।
विशेषो न द्वयोरासीत् सागरस्याम्बरस्य च॥ ११७॥


अन्योन्यैरहताः सक्ताः सस्वनुर्भीमनिःस्वनाः।
ऊर्मयः सिन्धुराजस्य महाभेर्य इवाम्बरे॥ ११८॥


रत्नौघजलसंनादं विषक्तमिव वायुना।
उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम्॥ ११९॥


ददृशुस्ते महात्मानो वाताहतजलाशयम्।
अनिलोद्‍धूतमाकाशे प्रवलान्तमिवोर्मिभिः॥ १२०॥


ततो विस्मयमापन्ना हरयो ददृशुः स्थिताः।
भ्रान्तोर्मिजालसंनादं प्रलोलमिव सागरम्॥ १२१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्थः सर्गः ॥६-४॥

Popular Posts