महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 128 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 128 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 128
Maharishi Valmiki Ramayan Yuddha Kand Sarg 128


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टाविंशत्यधिकशततमः सर्गः ॥६-१२८॥



शिरस्यञ्जलिमाधाय कैकेयीनन्दिवर्धनः।
बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम्॥ १॥


पूजिता मामिका माता दत्तं राज्यमिदं मम।
तद् ददामि पुनस्तुभ्यं यथा त्वमददा मम॥ २॥


धुरमेकाकिना न्यस्तां वृषभेण बलीयसा।
किशोरवद् गुरुं भारं न वोढुमहमुत्सहे॥ ३॥


वारिवेगेन महता भिन्नः सेतुरिव क्षरन्।
दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम्॥ ४॥


गतिं खर इवाश्वस्य हंसस्येव च वायसः।
नान्वेतुमुत्सहे वीर तव मार्गमरिंदम॥ ५॥


यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने।
महानपि दुरारोहो महास्कन्धः प्रशाखवान्॥ ६॥


शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन्।
तस्य नानुभवेदर्थं यस्य हेतोः स रोपितः॥ ७॥


एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि।
यद्यस्मान् मनुजेन्द्र त्वं भर्ता भृत्यान् न शाधि हि॥ ८॥


जगदद्याभिषिक्तं त्वामनुपश्यतु राघव।
प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम्॥ ९॥


तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिःस्वनैः।
मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च॥ १०॥


यावदावर्तते चक्रं यावती च वसुंधरा।
तावत् त्वमिह लोकस्य स्वामित्वमनुवर्तय॥ ११॥


भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः।
तथेति प्रतिजग्राह निषसादासने शुभे॥ १२॥


ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धनाः।
सुखहस्ताः सुशीघ्राश्च राघवं पर्यवारयन्॥ १३॥


पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले।
सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे॥ १४॥


विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः।
महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन्॥ १५॥


प्रतिकर्म च रामस्य कारयामास वीर्यवान्।
लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः॥ १६॥


प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः।
आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम्॥ १७॥


ततो वानरपत्नीनां सर्वासामेव शोभनम्।
चकार यत्नात् कौसल्या प्रहृष्टा पुत्रवत्सला॥ १८॥


ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः।
योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम्॥ १९॥


अग्न्यर्कामलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम्।
आरुरोह महाबाहू रामः परपुरंजयः॥ २०॥


सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती।
स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ॥ २१॥


सर्वाभरणजुष्टाश्च ययुस्ताः शुभकुण्डलाः।
सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः॥ २२॥


अयोध्यायां च सचिवा राज्ञो दशरथस्य च।
पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत्॥ २३॥


अशोको विजयश्चैव सिद्धार्थश्च समाहिताः।
मन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च॥ २४॥


सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः।
कर्तुमर्हथ रामस्य यद् यन्मङ्गलपूर्वकम्॥ २५॥


इति ते मन्त्रिणः सर्वे संदिश्य च पुरोहितः।
नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः॥ २६॥


हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः।
प्रययौ रथमास्थाय रामो नगरमुत्तमम्॥ २७॥


जग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे।
लक्ष्मणो व्यजनं तस्य मूर्ध्नि संवीजयंस्तदा॥ २८॥


श्वेतं च वालव्यजनं जगृहे परितः स्थितः।
अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः॥ २९॥


ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद‍्गणैः।
स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः॥ ३०॥


ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम्।
आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः॥ ३१॥


नव नागसहस्राणि ययुरास्थाय वानराः।
मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः॥ ३२॥


शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निःस्वनैः।
प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम्॥ ३३॥


ददृशुस्ते समायान्तं राघवं सपुरःसरम्।
विराजमानं वपुषा रथेनातिरथं तदा॥ ३४॥


ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः।
अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम्॥ ३५॥


अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः।
श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः॥ ३६॥


स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः।
प्रव्याहरद्भिर्मुदितैर्मङ्गलानि वृतो ययौ॥ ३७॥


अक्षतं जातरूपं च गावः कन्याः सहद्विजाः।
नरा मोदकहस्ताश्च रामस्य पुरतो ययुः॥ ३८॥


सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे।
वानराणां च तत् कर्म ह्याचचक्षेऽथ मन्त्रिणाम्॥ ३९॥


श्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः।
वानराणां च तत् कर्म राक्षसानां च तद् बलम्।
विभीषणस्य संयोगमाचचक्षेऽथ मन्त्रिणाम्॥ ४०॥


द्युतिमानेतदाख्याय रामो वानरसंयुतः।
हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश सः॥ ४१॥


ततो ह्यभ्युच्छ्रयन् पौराः पताकाश्च गृहे गृहे।
ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम्॥ ४२॥


अथाब्रवीद् राजपुत्रो भरतं धर्मिणां वरम्।
अर्थोपहितया वाचा मधुरं रघुनन्दनः॥ ४३॥


पितुर्भवनमासाद्य प्रविश्य च महात्मनः।
कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च॥ ४४॥


तच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत्।
मुक्तावैदूर्यसंकीर्णं सुग्रीवाय निवेदय॥ ४५॥


तस्य तद् वचनं श्रुत्वा भरतः सत्यविक्रमः।
हस्ते गृहीत्वा सुग्रीवं प्रविवेश तमालयम्॥ ४६॥


ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च।
गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः॥ ४७॥


उवाच च महातेजाः सुग्रीवं राघवानुजः।
अभिषेकाय रामस्य दूतानाज्ञापय प्रभो॥ ४८॥


सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान्।
ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान्॥ ४९॥


तथा प्रत्यूषसमये चतुर्णां सागराम्भसाम्।
पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः॥ ५०॥


एवमुक्ता महात्मानो वानरा वारणोपमाः।
उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः॥ ५१॥


जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः।
ऋषभश्चैव कलशाञ्जलपूर्णानथानयन्॥ ५२॥
नदीशतानां पञ्चानां जलं कुम्भैरुपाहरन्।


पूर्वात् समुद्रात् कलशं जलपूर्णमथानयत्॥ ५३॥
सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम्।


ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमानयत्॥ ५४॥
रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम्।


गवयः पश्चिमात् तोयमाजहार महार्णवात्॥ ५५॥
रत्नकुम्भेन महता शीतं मारुतविक्रमः।


उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः॥ ५६॥
आजहार स धर्मात्मानिलः सर्वगुणान्वितः।


ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम्॥ ५७॥
अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह।
पुरोहिताय श्रेष्ठाय सुहृद‍्भ्यश्च न्यवेदयत्॥ ५८॥


ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह।
रामं रत्नमये पीठे ससीतं संन्यवेशयत्॥ ५९॥


वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः।
कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा॥ ६०॥


अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना।
सलिलेन सहस्राक्षं वसवो वासवं यथा॥ ६१॥


ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा।
योधैश्चैवाभ्यषिञ्चस्ते सम्प्रहृष्टैः सनैगमैः॥ ६२॥


सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः।
चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः॥ ६३॥


ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम्।
अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम्॥ ६४॥


तस्यान्ववाये राजानः क्रमाद् येनाभिषेचिताः।
सभायां हेमक्लृप्तायां शोभितायां महाधनैः॥ ६५॥


रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः।
नानारत्नमये पीठे कल्पयित्वा यथाविधि॥ ६६॥


किरीटेन ततः पश्चाद् वसिष्ठेन महात्मना।
ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः॥ ६७॥


छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम्।
श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः॥ ६८॥


अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः।
मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम्॥ ६९॥


राघवाय ददौ वायुर्वासवेन प्रचोदितः।
सर्वरत्नसमायुक्तं मणिभिश्च विभूषितम्॥ ७०॥


मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः।
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः॥ ७१॥


अभिषेके तदर्हस्य तदा रामस्य धीमतः।
भूमिः सस्यवती चैव फलवन्तश्च पादपाः॥ ७२॥


गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे।
सहस्रशतमश्वानां धेनूनां च गवां तथा॥ ७३॥


ददौ शतवृषान् पूर्वं द्विजेभ्यो मनुजर्षभः।
त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः॥ ७४॥


नानाभरणवस्त्राणि महार्हाणि च राघवः।
अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम्॥ ७५॥


सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजाधिपः।
वैदूर्यमयचित्रे च चन्द्ररश्मिविभूषिते॥ ७६॥


वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ।
मणिप्रवरजुष्टं तं मुक्ताहारमनुत्तमम्॥ ७७॥


सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम्।
अरजे वाससी दिव्ये शुभान्याभरणानि च॥ ७८॥


अवेक्षमाणा वैदेही प्रददौ वायुसूनवे।
अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी॥ ७९॥


अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः।
तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम्॥ ८०॥


प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि।
अथ सा वायुपुत्राय तं हारमसितेक्षणा॥ ८१॥


तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः।
पौरुषं विक्रमो बुद्धिर्यस्मिन् नेतानि नित्यदा॥ ८२॥


हनूमांस्तेन हारेण शुशुभे वानरर्षभः।
चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः॥ ८३॥


सर्वे वानरवृद्धाश्च ये चान्ये वानरोत्तमाः।
वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः॥ ८४॥


विभीषणोऽथ सुग्रीवो हनूमाञ्जाम्बवांस्तथा।
सर्वे वानरमुख्याश्च रामेणाक्लिष्टकर्मणा॥ ८५॥


यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैः।
प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम्॥ ८६॥


ततो द्विविदमैन्दाभ्यां नीलाय च परंतपः।
सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः॥ ८७॥


दृष्ट्वा सर्वे महात्मानस्ततस्ते वानरर्षभाः।
विसृष्टाः पार्थिवेन्द्रेण किष्किन्धां समुपागमन्॥ ८८॥


सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम्।
पूजितश्चैव रामेण किष्किन्धां प्राविशत् पुरीम्॥ ८९॥


विभीषणोऽपि धर्मात्मा सह तैर्नैर्ऋतर्षभैः।
लब्ध्वा कुलधनं राजा लङ्कां प्रायान्महायशाः॥ ९०॥


स राज्यमखिलं शासन्निहतारिर्महायशाः।
राघवः परमोदारः शशास परया मुदा।
उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः॥ ९१॥


आतिष्ठ धर्मज्ञ मया सहेमां
गां पूर्वराजाध्युषितां बलेन।
तुल्यं मया त्वं पितृभिर्धृता या
तां यौवराज्ये धुरमुद्वहस्व॥ ९२॥


सर्वात्मना पर्यनुनीयमानो
यदा न सौमित्रिरुपैति योगम्।
नियुज्यमानो भुवि यौवराज्ये
ततोऽभ्यषिञ्चद् भरतं महात्मा॥ ९३॥


पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत्।
अन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवात्मजः॥ ९४॥


राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः।
शताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान्॥ ९५॥


आजानुलम्बिबाहुः स महावक्षाः प्रतापवान्।
लक्ष्मणानुचरो रामः शशास पृथिवीमिमाम्॥ ९६॥


राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम्।
ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः॥ ९७॥


न पर्यदेवन् विधवा न च व्यालकृतं भयम्।
न व्याधिजं भयं चासीद् रामे राज्यं प्रशासति॥ ९८॥


निर्दस्युरभवल्लोको नानर्थं कश्चिदस्पृशत्।
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते॥ ९९॥


सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत्।
राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम्॥ १००॥


आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः।
निरामया विशोकाश्च रामे राज्यं प्रशासति॥ १०१॥


रामो रामो राम इति प्रजानामभवन् कथाः।
रामभूतं जगदभूद् रामे राज्यं प्रशासति॥ १०२॥


नित्यमूला नित्यफलास्तरवस्तत्र पुष्पिताः।
कामवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः॥ १०३॥


ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः।
स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः॥ १०४॥


आसन् प्रजा धर्मपरा रामे शासति नानृताः।
सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः॥ १०५॥


दशवर्षसहस्राणि दशवर्षशतानि च।
भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत्॥ १०६॥


धर्म्यं यशस्यमायुष्यं राज्ञां च विजयावहम्।
आदिकाव्यमिदं चार्षं पुरा वाल्मीकिना कृतम्॥ १०७॥


यः शृणोति सदा लोके नरः पापात् प्रमुच्यते।
पुत्रकामश्च पुत्रान् वै धनकामो धनानि च॥ १०८॥


लभते मनुजो लोके श्रुत्वा रामाभिषेचनम्।
महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति॥ १०९॥


राघवेण यथा माता सुमित्रा लक्ष्मणेन च।
भरतेन च कैकेयी जीवपुत्रास्तथा स्त्रियः॥ ११०॥


भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः।
श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति॥ १११॥


रामस्य विजयं चेमं सर्वमक्लिष्टकर्मणः।
शृणोति य इदं काव्यं पुरा वाल्मीकिना कृतम्॥ ११२॥


श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ।
समागम्य प्रवासान्ते रमन्ते सह बान्धवैः॥ ११३॥


शृण्वन्ति य इदं काव्यं पुरा वाल्मीकिना कृतम्।
ते प्रार्थितान् वरान् सर्वान् प्राप्नुवन्तीह राघवात्॥ ११४॥


श्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशृण्वताम्।
विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै॥ ११५॥


विजयेत महीं राजा प्रवासी स्वस्तिमान् भवेत्।
स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान्॥ ११६॥


पूजयंश्च पठंश्चैनमितिहासं पुरातनम्।
सर्वपापैः प्रमुच्येत दीर्घमायुरवाप्नुयात्॥ ११७॥


प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात्।
ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः॥ ११८॥


रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा।
प्रीयते सततं रामः स हि विष्णुः सनातनः॥ ११९॥


आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः।
साक्षाद् रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते॥ १२०॥


एवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम्॥ १२१॥


देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात् तथा।
रामायणस्य श्रवणे तृप्यन्ति पितरः सदा॥ १२२॥


भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम्।
ये लिखन्तीह च नरास्तेषां वासस्त्रिविष्टपे॥ १२३॥


कुटुम्बवृद्धिं धनधान्यवृद्धिं
स्त्रियश्च मुख्याः सुखमुत्तमं च।
श्रुत्वा शुभं काव्यमिदं महार्थं
प्राप्नोति सर्वां भुवि चार्थसिद्धिम्॥ १२४॥


आयुष्यमारोग्यकरं यशस्यं
सौभ्रातृकं बुद्धिकरं शुभं च।
श्रोतव्यमेतन्नियमेन सद्भि-
राख्यानमोजस्करमृद्धिकामैः॥ १२५॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाविंशत्यधिकशततमः सर्गः ॥ १२८ ॥

Popular Posts