महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 127 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 127 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 127
Maharishi Valmiki Ramayan Yuddha Kand Sarg 127


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तविंशत्यधिकशततमः सर्गः ॥६-१२७॥


श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः।
हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा॥ १॥


दैवतानि च सर्वाणि चैत्यानि नगरस्य च।
सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः॥ २॥


सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा।
सर्वे वादित्रकुशला गणिकाश्चैव सर्वशः॥ ३॥


राजदारास्तथामात्याः सैन्याः सेनाङ्गनागणाः।
ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः॥ ४॥


अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम्।
भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा॥ ५॥


विष्टीरनेकसाहस्रीश्चोदयामास भागशः।
समीकुरुत निम्नानि विषमाणि समानि च॥ ६॥


स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम्।
सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा॥ ७॥


ततोऽभ्यवकिरन्त्वन्ये लाजैः पुष्पैश्च सर्वतः।
समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे॥ ८॥


शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति।
स्रग्दाममुक्तपुष्पैश्च सुवर्णैः पञ्चवर्णकैः॥ ९॥


राजमार्गमसम्बाधं किरन्तु शतशो नराः।
ततस्तच्छासनं श्रुत्वा शत्रुघ्नस्य मुदान्विताः॥ १०॥


धृष्टिर्जयन्तो विजयः सिद्धार्थश्चार्थसाधकः।
अशोको मन्त्रपालश्च सुमन्त्रश्चापि निर्ययुः॥ ११॥


मत्तैर्नागसहस्रैश्च सध्वजैः सुविभूषितैः।
अपरे हेमकक्षाभिः सगजाभिः करेणुभिः॥ १२॥


निर्ययुस्तुरगाक्रान्ता रथैश्च सुमहारथाः।
शक्त्यृष्टिपाशहस्तानां सध्वजानां पताकिनाम्॥ १३॥


तुरगाणां सहस्रैश्च मुख्यैर्मुख्यतरान्वितैः।
पदातीनां सहस्रैश्च वीराः परिवृता ययुः॥ १४॥


ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः।
कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः॥ १५॥


कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन्॥ १६॥


द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः।
माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः॥ १७॥


शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः।
आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः॥ १८॥


पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम्।
शुक्ले च वालव्यजने राजार्हे हेमभूषिते॥ १९॥


उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः।
भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः॥ २०॥


प्रत्युद्ययौ यदा रामं महात्मा सचिवैः सह।
अश्वानां खुरशब्दैश्च रथनेमिस्वनेन च॥ २१॥


शङ्खदुन्दुभिनादेन संचचालेव मेदिनी।
गजानां बृंहितैश्चापि शङ्खदुन्दुभिनिःस्वनैः॥ २२॥


कृत्स्नं तु नगरं तत् तु नन्दिग्राममुपागमत्।
समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम्॥ २३॥


कच्चिन्न खलु कापेयी सेव्यते चलचित्तता।
नहि पश्यामि काकुत्स्थं राममार्यं परंतपम्॥ २४॥


कच्चिन्न चानुदृश्यन्ते कपयः कामरूपिणः।
अथैवमुक्ते वचने हनूमानिदमब्रवीत्॥ २५॥


अर्थ्यं विज्ञापयन्नेव भरतं सत्यविक्रमम्।
सदाफलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान्॥ २६॥


भरद्वाजप्रसादेन मत्तभ्रमरनादितान्।
तस्य चैव वरो दत्तो वासवेन परंतप॥ २७॥


ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम्।
निःस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम्॥ २८॥


मन्ये वानरसेना सा नदीं तरति गोमतीम्।
रजोवर्षं समुद्भूतं पश्य सालवनं प्रति॥ २९॥


मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः।
तदेतद् दृश्यते दूराद् विमानं चन्द्रसंनिभम्॥ ३०॥


विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम्।
रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना॥ ३१॥


तरुणादित्यसंकाशं विमानं रामवाहनम्।
धनदस्य प्रसादेन दिव्यमेतन्मनोजवम्॥ ३२॥


एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ।
सुग्रीवश्च महातेजा राक्षसश्च विभीषणः॥ ३३॥


ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत्।
स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते॥ ३४॥


रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः।
ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे॥ ३५॥


प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः।
यथार्थेनार्घ्यपाद्याद्यैस्ततो राममपूजयत्॥ ३६॥


मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः।
रराज पृथुदीर्घाक्षो वज्रपाणिरिवामरः॥ ३७॥


ततो विमानाग्रगतं भरतो भ्रातरं तदा।
ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम्॥ ३८॥


ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्।
हंसयुक्तं महावेगं निपपात महीतलम्॥ ३९॥


आरोपितो विमानं तद् भरतः सत्यविक्रमः।
राममासाद्य मुदितः पुनरेवाभ्यवादयत्॥ ४०॥


तं समुत्थाय काकुत्स्थश्चिरस्याक्षिपथं गतम्।
अङ्के भरतमारोप्य मुदितः परिषस्वजे॥ ४१॥


ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः।
अथाभ्यवादयत् प्रीतो भरतो नाम चाब्रवीत्॥ ४२॥


सुग्रीवं केकयीपुत्रो जाम्बवन्तमथाङ्गदम्।
मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे॥ ४३॥


सुषेणं च नलं चैव गवाक्षं गन्धमादनम्।
शरभं पनसं चैव परितः परिषस्वजे॥ ४४॥


ते कृत्वा मानुषं रूपं वानराः कामरूपिणः।
कुशलं पर्यपृच्छंस्ते प्रहृष्टा भरतं तदा॥ ४५॥


अथाब्रवीद् राजपुत्रः सुग्रीवं वानरर्षभम्।
परिष्वज्य महातेजा भरतो धर्मिणां वरः॥ ४६॥


त्वमस्माकं चतुर्णां वै भ्राता सुग्रीव पञ्चमः।
सौहृदाज्जायते मित्रमपकारोऽरिलक्षणम्॥ ४७॥


विभीषणं च भरतः सान्त्ववाक्यमथाब्रवीत्।
दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम्॥ ४८॥


शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम्।
सीतायाश्चरणौ वीरो विनयादभ्यवादयत्॥ ४९॥


रामो मातरमासाद्य विवर्णां शोककर्शिताम्।
जग्राह प्रणतः पादौ मनो मातुः प्रहर्षयन्॥ ५०॥


अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम्।
स मातॄश्च ततः सर्वाः पुरोहितमुपागमत्॥ ५१॥


स्वागतं ते महाबाहो कौसल्यानन्दवर्धन।
इति प्राञ्जलयः सर्वे नागरा राममब्रुवन्॥ ५२॥


तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः।
व्याकोशानीव पद्मानि ददर्श भरताग्रजः॥ ५३॥


पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम्।
चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित्॥ ५४॥


अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः।
एतत् ते सकलं राज्यं न्यासं निर्यातितं मया॥ ५५॥


अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः।
यत् त्वां पश्यामि राजानमयोध्यां पुनरागतम्॥ ५६॥


अवेक्षतां भवान् कोशं कोष्ठागारं गृहं बलम्।
भवतस्तेजसा सर्वं कृतं दशगुणं मया॥ ५७॥


तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम्।
मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः॥ ५८॥


ततः प्रहर्षाद् भरतमङ्कमारोप्य राघवः।
ययौ तेन विमानेन ससैन्यो भरताश्रमम्॥ ५९॥


भरताश्रममासाद्य ससैन्यो राघवस्तदा।
अवतीर्य विमानाग्रादवतस्थे महीतले॥ ६०॥


अब्रवीत् तु तदा रामस्तद् विमानमनुत्तमम्।
वह वैश्रवणं देवमनुजानामि गम्यताम्॥ ६१॥


ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्।
उत्तरां दिशमुद्दिश्य जगाम धनदालयम्॥ ६२॥


विमानं पुष्पकं दिव्यं संगृहीतं तु रक्षसा।
अगमद् धनदं वेगाद् रामवाक्यप्रचोदितम्॥ ६३॥


पुरोहितस्यात्मसखस्य राघवो
बृहस्पतेः शक्र इवामराधिपः।
निपीड्य पादौ पृथगासने शुभे
सहैव तेनोपविवेश वीर्यवान्॥ ६४॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशत्यधिकशततमः सर्गः ॥ १२७ ॥

Popular Posts