महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 107 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 107 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 107
Maharishi Valmiki Ramayan Yuddha Kand Sarg 107


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्ताधिकशततमः सर्गः ॥६-१०७॥



ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा।
सुमहद् द्वैरथं युद्धं सर्वलोकभयावहम्॥ १॥


ततो राक्षससैन्यं च हरीणां च महद‍्बलम्।
प्रगृहीतप्रहरणं निश्चेष्टं समवर्तत॥ २॥


सम्प्रयुद्धौ तु तौ दृष्ट्वा बलवन्नरराक्षसौ।
व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः॥ ३॥


नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः।
तस्थुः प्रेक्ष्य च संग्रामं नाभिजग्मुः परस्परम्॥ ४॥


रक्षसां रावणं चापि वानराणां च राघवम्।
पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ॥ ५॥


तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ।
कृतबुद्धी स्थिरामर्षौ युयुधाते ह्यभीतवत्॥ ६॥


जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः।
धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा॥ ७॥


ततः क्रोधाद् दशग्रीवः शरान् संधाय वीर्यवान्।
मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम्॥ ८॥


ते शरास्तमनासाद्य पुरंदररथध्वजम्।
रथशक्तिं परामृश्य निपेतुर्धरणीतले॥ ९॥


ततो रामोऽपि संक्रुद्धश्चापमाकृष्य वीर्यवान्।
कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे॥ १०॥


रावणध्वजमुद्दिश्य मुमोच निशितं शरम्।
महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा॥ ११॥


रामश्चिक्षेप तेजस्वी केतुमुद्दिश्य सायकम्।
जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः॥ १२॥


स निकृत्तोऽपतद् भूमौ रावणस्यन्दनध्वजः।
ध्वजस्योन्मथनं दृष्ट्वा रावणः स महाबलः॥ १३॥


सम्प्रदीप्तोऽभवत् क्रोधादमर्षात् प्रदहन्निव।
स रोषवशमापन्नः शरवर्षं ववर्ष ह॥ १४॥


रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः।
ते दिव्या हरयस्तत्र नास्खलन्नापि बभ्रमुः॥ १५॥


बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः।
तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा॥ १६॥


भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह।
गदाश्च परिघांश्चैव चक्राणि मुसलानि च॥ १७॥


गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान्।
मायाविहितमेतत् तु शस्त्रवर्षमपातयत्।
सहस्रशस्तदा बाणानश्रान्तहृदयोद्यमः॥ १८॥


तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम्।
तद् वर्षमभवद् युद्धे नैकशस्त्रमयं महत्॥ १९॥


विमुच्य राघवरथं समन्ताद् वानरे बले।
सायकैरन्तरिक्षं च चकार सुनिरन्तरम्॥ २०॥


मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना।
व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे॥ २१॥


प्रहसन्निव काकुत्स्थः संदधे निशितान् शरान्।
स मुमोच ततो बाणान् शतशोऽथ सहस्रशः॥ २२॥


तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम्।
ताभ्यां नियुक्तेन तदा शरवर्षेण भास्वता॥ २३॥


शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम्।
नानिमित्तोऽभवद् बाणो नानिर्भेत्ता न निष्फलः॥ २४॥


अन्योन्यमभिसंहत्य निपेतुर्धरणीतले।
तथा विसृजतोर्बाणान् रामरावणयोर्मृधे॥ २५॥


प्रायुध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम्।
चक्रतुश्च शरैर्घोरैर्निरुच्छ्वासमिवाम्बरम्॥ २६॥


रावणस्य हयान् रामो हयान् रामस्य रावणः।
जघ्नतुस्तौ तदान्योन्यं कृतानुकृतकारिणौ॥ २७॥


एवं तु तौ सुसंक्रुद्धौ चक्रतुर्युद्धमुत्तमम्।
मुहूर्तमभवद् युद्धं तुमुलं रोमहर्षणम्॥ २८॥


तौ तथा युध्यमानौ तु समरे रामरावणौ।
ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना॥ २९॥


अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ।
परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ॥ ३०॥


परस्परवधे युक्तौ घोररूपौ बभूवतुः।
मण्डलानि च वीथीश्च गतप्रत्यागतानि च॥ ३१॥


दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम्।
अर्दयन् रावणं रामो राघवं चापि रावणः॥ ३२॥


गतिवेगं समापन्नौ प्रवर्तननिवर्तने।
क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ॥ ३३॥


चेरतुः संयुगमहीं सासारौ जलदाविव।
दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे॥ ३४॥


परस्परस्याभिमुखौ पुनरेव च तस्थतुः।
धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम्॥ ३५॥


पताकाश्च पताकाभिः समीयुः स्थितयोस्तदा।
रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः॥ ३६॥


चतुर्भिश्चतुरो दीप्तान् हयान् प्रत्यपसर्पयत्।
स क्रोधवशमापन्नो हयानामपसर्पणे॥ ३७॥


मुमोच निशितान् बाणान् राघवाय दशाननः।
सोऽतिविद्धो बलवता दशग्रीवेण राघवः॥ ३८॥


जगाम न विकारं च न चापि व्यथितोऽभवत्।
चिक्षेप च पुनर्बाणान् वज्रसारसमस्वनान्॥ ३९॥


सारथिं वज्रहस्तस्य समुद्दिश्य दशाननः।
मातलेस्तु महावेगाः शरीरे पतिताः शराः॥ ४०॥


न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि।
तया धर्षणया क्रुद्धो मातलेर्न तथाऽऽत्मनः॥ ४१॥


चकार शरजालेन राघवो विमुखं रिपुम्।
विंशतिं त्रिंशतिं षष्टिं शतशोऽथ सहस्रशः॥ ४२॥


मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः।
रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः॥ ४३॥


गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे।
तत् प्रवृत्तं पुनर्युद्धं तुमुलं रोमहर्षणम्॥ ४४॥


गदानां मुसलानां च परिघाणां च निःस्वनैः।
शराणां पुङ्खवातैश्च क्षुभिताः सप्त सागराः॥ ४५॥


क्षुब्धानां सागराणां च पातालतलवासिनः।
व्यथिता दानवाः सर्वे पन्नगाश्च सहस्रशः॥ ४६॥


चकम्पे मेदिनी कृत्स्ना सशैलवनकानना।
भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः॥ ४७॥


ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
चिन्तामापेदिरे सर्वे सकिंनरमहोरगाः॥ ४८॥


स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः।
जयतां राघवः संख्ये रावणं राक्षसेश्वरम्॥ ४९॥


एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा।
रामरावणयोर्युद्धं सुघोरं रोमहर्षणम्॥ ५०॥


गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम्।
गगनं गगनाकारं सागरः सागरोपमः॥ ५१॥


रामरावणयोर्युद्धं रामरावणयोरिव।
एवं ब्रुवन्तो ददृशुस्तद् युद्धं रामरावणम्॥ ५२॥


ततः क्रोधान्महाबाहू रघूणां कीर्तिवर्धनः।
संधाय धनुषा रामः शरमाशीविषोपमम्॥ ५३॥


रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम्।
तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा॥ ५४॥


तस्यैव सदृशं चान्यद् रावणस्योत्थितं शिरः।
तत् क्षिप्तं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा॥ ५५॥


द्वितीयं रावणशिरश्छिन्नं संयति सायकैः।
छिन्नमात्रं च तच्छीर्षं पुनरेव प्रदृश्यते॥ ५६॥


तदप्यशनिसंकाशैश्छिन्नं रामस्य सायकैः।
एवमेव शतं छिन्नं शिरसां तुल्यवर्चसाम्॥ ५७॥


न चैव रावणस्यान्तो दृश्यते जीवितक्षये।
ततः सर्वास्त्रविद् वीरः कौसल्यानन्दवर्धनः॥ ५८॥


मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः।
मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः॥ ५९॥


क्रौञ्चावटे विराधस्तु कबन्धो दण्डकावने।
यैः साला गिरयो भग्ना वाली च क्षुभितोऽम्बुधिः॥ ६०॥


त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम।
किं नु तत् कारणं येन रावणे मन्दतेजसः॥ ६१॥


इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे।
ववर्ष शरवर्षाणि राघवो रावणोरसि॥ ६२॥


रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः।
गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे॥ ६३॥


तत् प्रवृत्तं महद् युद्धं तुमुलं रोमहर्षणम्।
अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि॥ ६४॥


देवदानवयक्षाणां पिशाचोरगरक्षसाम्।
पश्यतां तन्महद् युद्धं सर्वरात्रमवर्तत॥ ६५॥


नैव रात्रिं न दिवसं न मुहूर्तं न च क्षणम्।
रामरावणयोर्युद्धं विराममुपगच्छति॥ ६६॥


दशरथसुतराक्षसेन्द्रयोस्तयो-
र्जयमनवेक्ष्य रणे स राघवस्य।
सुरवररथसारथिर्महात्मा
रणरतराममुवाच वाक्यमाशु॥ ६७॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्ताधिकशततमः सर्गः ॥ १०७ ॥

Popular Posts