महर्षि वाल्मीकि रामायण सुन्दरकाण्ड सर्ग 28 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Sundar Kand Sarg 28 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण सुन्दरकाण्ड सर्ग 28
Maharishi Valmiki Ramayan Sundar Kand Sarg 28


श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टाविंशः सर्गः ॥५-२८॥


सा राक्षसेन्द्रस्य वचो निशम्य
तद् रावणस्याप्रियमप्रियार्ता।
सीता वितत्रास यथा वनान्ते
सिंहाभिपन्ना गजराजकन्या॥ १॥

सा राक्षसीमध्यगता च भीरु-
र्वाग्भिर्भृशं रावणतर्जिता च।
कान्तारमध्ये विजने विसृष्टा
बालेव कन्या विललाप सीता॥ २॥

सत्यं बतेदं प्रवदन्ति लोके
नाकालमृत्युर्भवतीति सन्तः।
यत्राहमेवं परिभर्त्स्यमाना
जीवामि यस्मात् क्षणमप्यपुण्या॥ ३॥

सुखाद् विहीनं बहुदुःखपूर्ण-
मिदं तु नूनं हृदयं स्थिरं मे।
विदीर्यते यन्न सहस्रधाद्य
वज्राहतं शृंगमिवाचलस्य॥ ४॥

नैवास्ति नूनं मम दोषमत्र
वध्याहमस्याप्रियदर्शनस्य।
भावं न चास्याहमनुप्रदातु-
मलं द्विजो मन्त्रमिवाद्विजाय॥ ५॥

तस्मिन्ननागच्छति लोकनाथे
गर्भस्थजन्तोरिव शल्यकृन्तः।
नूनं ममांगान्यचिरादनार्यः
शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः॥ ६॥

दुःखं बतेदं ननु दुःखिताया
मासौ चिरायाभिगमिष्यतो द्वौ।
बद्धस्य वध्यस्य यथा निशान्ते
राजोपरोधादिव तस्करस्य॥ ७॥

हा राम हा लक्ष्मण हा सुमित्रे
हा राममातः सह मे जनन्यः।
एषा विपद्याम्यहमल्पभाग्या
महार्णवे नौरिव मूढवाता॥ ८॥

तरस्विनौ धारयता मृगस्य
सत्त्वेन रूपं मनुजेन्द्रपुत्रौ।
नूनं विशस्तौ मम कारणात् तौ
सिंहर्षभौ द्वाविव वैद्युतेन॥ ९॥

नूनं स कालो मृगरूपधारी
मामल्पभाग्यां लुलुभे तदानीम्।
यत्रार्यपुत्रौ विससर्ज मूढा
रामानुजं लक्ष्मणपूर्वजं च॥ १०॥

हा राम सत्यव्रत दीर्घबाहो
हा पूर्णचन्द्रप्रतिमानवक्त्र।
हा जीवलोकस्य हितः प्रियश्च
वध्यां न मां वेत्सि हि राक्षसानाम्॥ ११॥

अनन्यदेवत्वमियं क्षमा च
भूमौ च शय्या नियमश्च धर्मे।
पतिव्रतात्वं विफलं ममेदं
कृतं कृतघ्नेष्विव मानुषाणाम्॥ १२॥

मोघो हि धर्मश्चरितो ममायं
तथैकपत्नीत्वमिदं निरर्थकम्।
या त्वां न पश्यामि कृशा विवर्णा
हीना त्वया संगमने निराशा॥ १३॥

पितुर्निदेशं नियमेन कृत्वा
वनान्निवृत्तश्चरितव्रतश्च।
स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः
संरंस्यसे वीतभयः कृतार्थः॥ १४॥

अहं तु राम त्वयि जातकामा
चिरं विनाशाय निबद्धभावा।
मोघं चरित्वाथ तपो व्रतं च
त्यक्ष्यामि धिग्जीवितमल्पभाग्याम्॥ १५॥

संजीवितं क्षिप्रमहं त्यजेयं
विषेण शस्त्रेण शितेन वापि।
विषस्य दाता न तु मेऽस्ति कश्चि-
च्छस्त्रस्य वा वेश्मनि राक्षसस्य॥ १६॥

शोकाभितप्ता बहुधा विचिन्त्य
सीताथ वेणीग्रथनं गृहीत्वा।
उद‍्बद‍्ध्य वेण्युद्‍ग्रथनेन शीघ्र-
महं गमिष्यामि यमस्य मूलम्॥ १७॥

उपस्थिता सा मृदुसर्वगात्री
शाखां गृहीत्वा च नगस्य तस्य।
तस्यास्तु रामं परिचिन्तयन्त्या
रामानुजं स्वं च कुलं शुभांग्याः॥ १८॥

तस्या विशोकानि तदा बहूनि
धैर्यार्जितानि प्रवराणि लोके।
प्रादुर्निमित्तानि तदा बभूवुः
पुरापि सिद्धान्युपलक्षितानि॥ १९॥

'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टाविंशः सर्गः ॥ ५.२८॥'''

Popular Posts