महर्षि वाल्मीकि रामायण सुन्दरकाण्ड सर्ग 27 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Sundar Kand Sarg 27 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण सुन्दरकाण्ड सर्ग 27
Maharishi Valmiki Ramayan Sundar Kand Sarg 27


श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तविंशः सर्गः ॥५-२७॥


इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्च्छिताः।
काश्चिज्जग्मुस्तदाख्यातुं रावणस्य दुरात्मनः॥ १॥

ततः सीतामुपागम्य राक्षस्यो भीमदर्शनाः।
पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन्॥ २॥

अद्येदानीं तवानार्ये सीते पापविनिश्चये।
राक्षस्यो भक्षयिष्यन्ति मांसमेतद् यथासुखम्॥ ३॥

सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा।
राक्षसी त्रिजटा वृद्धा प्रबुद्धा वाक्यमब्रवीत्॥ ४॥

आत्मानं खादतानार्या न सीतां भक्षयिष्यथ।
जनकस्य सुतामिष्टां स्नुषां दशरथस्य च॥ ५॥

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः।
राक्षसानामभावाय भर्तुरस्या भवाय च॥ ६॥

एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः।
सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः॥ ७॥

कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि।
तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद‍्गतम्॥ ८॥

उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम्।
गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम्॥ ९॥

युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः।
शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः॥ १०॥

स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता।
सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता॥ ११॥

रामेण संगता सीता भास्करेण प्रभा यथा।
राघवश्च पुनर्दृष्टश्चतुर्दन्तं महागजम्॥ १२॥

आरूढः शैलसंकाशं चकास सहलक्ष्मणः।
ततस्तु सूर्यसंकाशौ दीप्यमानौ स्वतेजसा॥ १३॥

शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ।
ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः॥ १४॥

भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता।
भर्तुरङ्कात् समुत्पत्य ततः कमललोचना॥ १५॥

चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती।
ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः।
सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः॥ १६॥

पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम्।
इहोपयातः काकुत्स्थः सीतया सह भार्यया॥ १७॥

शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः।
ततोऽन्यत्र मया दृष्टो रामः सत्यपराक्रमः॥ १८॥

लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान्।
आरुह्य पुष्पकं दिव्यं विमानं सूर्यसंनिभम्॥ १९॥

उत्तरां दिशमालोच्य प्रस्थितः पुरुषोत्तमः।
एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः॥ २०॥

लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया।
न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः॥ २१॥

राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव।
रावणश्च मया दृष्टो मुण्डस्तैलसमुक्षितः॥ २२॥

रक्तवासाः पिबन्मत्तः करवीरकृतस्रजः।
विमानात् पुष्पकादद्य रावणः पतितः क्षितौ॥ २३॥

कृष्यमाणः स्त्रिया मुण्डो दृष्टः कृष्णाम्बरः पुनः।
रथेन खरयुक्तेन रक्तमाल्यानुलेपनः॥ २४॥

पिबंस्तैलं हसन्नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः।
गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः॥ २५॥

पुनरेव मया दृष्टो रावणो राक्षसेश्वरः।
पतितोऽवाक्शिरा भूमौ गर्दभाद् भयमोहितः॥ २६॥

सहसोत्थाय सम्भ्रान्तो भयार्तो मदविह्वलः।
उन्मत्तरूपो दिग्वासा दुर्वाक्यं प्रलपन् बहु॥ २७॥

दुर्गन्धं दुःसहं घोरं तिमिरं नरकोपमम्।
मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः॥ २८॥

प्रस्थितो दक्षिणामाशां प्रविष्टोऽकर्दमं ह्रदम्।
कण्ठे बद्‍ध्वा दशग्रीवं प्रमदा रक्तवासिनी॥ २९॥

काली कर्दमलिप्तांगी दिशं याम्यां प्रकर्षति।
एवं तत्र मया दृष्टः कुम्भकर्णो महाबलः॥ ३०॥

रावणस्य सुताः सर्वे मुण्डास्तैलसमुक्षिताः।
वराहेण दशग्रीवः शिशुमारेण चेन्द्रजित्॥ ३१॥

उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम्।
एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः॥ ३२॥

शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः।
शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलंकृतः॥ ३३॥

आरुह्य शैलसंकाशं मेघस्तनितनिःस्वनम्।
चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः॥ ३४॥

चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः॥ ३५॥

समाजश्च महान् वृत्तो गीतवादित्रनिःस्वनः।
पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्॥ ३६॥

लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा।
सागरे पतिता दृष्टा भग्नगोपुरतोरणा॥ ३७॥

लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता।
दग्धा रामस्य दूतेन वानरेण तरस्विना॥ ३८॥

पीत्वा तैलं प्रमत्ताश्च प्रहसन्त्यो महास्वनाः।
लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः॥ ३९॥

कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाः।
रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदम्॥ ४०॥

अपगच्छत पश्यध्वं सीतामाप्नोति राघवः।
घातयेत् परमामर्षी युष्मान् सार्धं हि राक्षसैः॥ ४१॥

प्रियां बहुमतां भार्यां वनवासमनुव्रताम्।
भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः॥ ४२॥

तदलं क्रूरवाक्यैश्च सान्त्वमेवाभिधीयताम्।
अभियाचाम वैदेहीमेतद्धि मम रोचते॥ ४३॥

यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते।
सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्॥ ४४॥

भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया।
राघवाद्धि भयं घोरं राक्षसानामुपस्थितम्॥ ४५॥

प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा।
अलमेषा परित्रातुं राक्षस्यो महतो भयात्॥ ४६॥

अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये।
विरूपमपि चांगेषु सुसूक्ष्ममपि लक्षणम्॥ ४७॥

छायावैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम्।
अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम्॥ ४८॥

अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम्।
राक्षसेन्द्रविनाशं च विजयं राघवस्य च॥ ४९॥

निमित्तभूतमेतत् तु श्रोतुमस्या महत् प्रियम्।
दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम्॥ ५०॥

ईषद्धि हृषितो वास्या दक्षिणाया ह्यदक्षिणः।
अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते॥ ५१॥

करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः।
वेपन् कथयतीवास्या राघवं पुरतः स्थितम्॥ ५२॥

पक्षी च शाखानिलयं प्रविष्टः
पुनः पुनश्चोत्तमसान्त्ववादी।
सुस्वागतां वाचमुदीरयाणः
पुनः पुनश्चोदयतीव हृष्टः॥ ५३॥

ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता।
अवोचद् यदि तत् तथ्यं भवेयं शरणं हि वः॥ ५४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तविंशः सर्गः ॥ ५.२७॥

Popular Posts