महर्षि वाल्मीकि रामायण सुन्दरकाण्ड सर्ग 24 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Sundar Kand Sarg 24 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण सुन्दरकाण्ड सर्ग 24
Maharishi Valmiki Ramayan Sundar Kand Sarg 24


श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुर्विंशः सर्गः ॥५-२४॥


ततः सीतां समस्तास्ता राक्षस्यो विकृताननाः।
परुषं परुषानर्हामूचुस्तद्वाक्यमप्रियम्॥ १॥

किं त्वमन्तःपुरे सीते सर्वभूतमनोरमे।
महार्हशयनोपेते न वासमनुमन्यसे॥ २॥

मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे।
प्रत्याहर मनो रामान्नैवं जातु भविष्यति॥ ३॥

त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम्।
भर्तारमुपसंगम्य विहरस्व यथासुखम्॥ ४॥

मानुषी मानुषं तं तु राममिच्छसि शोभने।
राज्याद् भ्रष्टमसिद्धार्थं विक्लवन्तमनिन्दिते॥ ५॥

राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा।
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्॥ ६॥

यदिदं लोकविद्विष्टमुदाहरत संगताः।
नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति॥ ७॥

न मानुषी राक्षसस्य भार्या भवितुमर्हति।
कामं खादत मां सर्वा न करिष्यामि वो वचः॥ ८॥

दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः।
तं नित्यमनुरक्तास्मि यथा सूर्यं सुवर्चला॥ ९॥

यथा शची महाभागा शक्रं समुपतिष्ठति।
अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा॥ १०॥

लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा।
सावित्री सत्यवन्तं च कपिलं श्रीमती यथा॥ ११॥

सौदासं मदयन्तीव केशिनी सगरं यथा।
नैषधं दमयन्तीव भैमी पतिमनुव्रता॥ १२॥

तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता।
सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्च्छिताः।
भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः॥ १३॥

अवलीनः स निर्वाक्यो हनुमान् शिंशपाद्रुमे।
सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत् कपिः॥ १४॥

तामभिक्रम्य संरब्धा वेपमानां समन्ततः।
भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान्॥ १५॥

ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान्।
नेयमर्हति भर्तारं रावणं राक्षसाधिपम्॥ १६॥

सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरांगना।
सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत्॥ १७॥

ततस्तां शिंशपां सीता राक्षसीभिः समावृता।
अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता॥ १८॥

तां कृशां दीनवदनां मलिनाम्बरवासिनीम्।
भर्त्सयाञ्चक्रिरे भीमा राक्षस्यस्ताः समन्ततः॥ १९॥

ततस्तु विनता नाम राक्षसी भीमदर्शना।
अब्रवीत् कुपिताकारा कराला निर्णतोदरी॥ २०॥

सीते पर्याप्तमेतावद् भर्तुः स्नेहः प्रदर्शितः।
सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते॥ २१॥

परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः।
ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि॥ २२॥

रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्।
विक्रान्तमापतन्तं च सुरेशमिव वासवम्॥ २३॥

दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम्।
मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय॥ २४॥

दिव्यांगरागा वैदेहि दिव्याभरणभूषिता।
अद्यप्रभृति लोकानां सर्वेषामीश्वरी भव॥ २५॥

अग्नेः स्वाहा यथा देवी शची वेन्द्रस्य शोभने।
किं ते रामेण वैदेहि कृपणेन गतायुषा॥ २६॥

एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि।
अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्॥ २७॥

अन्या तु विकटा नाम लम्बमानपयोधरा।
अब्रवीत् कुपिता सीतां मुष्टिमुद्यम्य तर्जती॥ २८॥

बहून्यप्रतिरूपाणि वचनानि सुदुर्मते।
अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि॥ २९॥

न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम्।
आनीतासि समुद्रस्य पारमन्यैर्दुरासदम्॥ ३०॥

रावणान्तःपुरे घोरे प्रविष्टा चासि मैथिलि।
रावणस्य गृहे रुद्धा अस्माभिस्त्वभिरक्षिता॥ ३१॥

न त्वां शक्तः परित्रातुमपि साक्षात् पुरंदरः।
कुरुष्व हितवादिन्या वचनं मम मैथिलि॥ ३२॥

अलमश्रुनिपातेन त्यज शोकमनर्थकम्।
भज प्रीतिं प्रहर्षं च त्यजन्ती नित्यदैन्यताम्॥ ३३॥

सीते राक्षसराजेन परिक्रीड यथासुखम्।
जानीमहे यथा भीरु स्त्रीणां यौवनमध्रुवम्॥ ३४॥

यावन्न ते व्यतिक्रामेत् तावत् सुखमवाप्नुहि।
उद्यानानि च रम्याणि पर्वतोपवनानि च॥ ३५॥

सह राक्षसराजेन चर त्वं मदिरेक्षणे।
स्त्रीसहस्राणि ते देवि वशे स्थास्यन्ति सुन्दरि॥ ३६॥

रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्।
उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि॥ ३७॥

यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि।
ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना॥ ३८॥

भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत्।
इमां हरिणशावाक्षीं त्रासोत्कम्पपयोधराम्॥ ३९॥

रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानयम्।
यकृत्प्लीहं महत् क्रोडं हृदयं च सबन्धनम्॥ ४०॥

गात्राण्यपि तथा शीर्षं खादेयमिति मे मतिः।
ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत्॥ ४१॥

कण्ठमस्या नृशंसायाः पीडयामः किमास्यते।
निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह॥ ४२॥

नात्र कश्चन संदेहः खादतेति स वक्ष्यति।
ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत्॥ ४३॥

विशस्येमां ततः सर्वान् समान् कुरुत पिण्डकान्।
विभजाम ततः सर्वा विवादो मे न रोचते॥ ४४॥

पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु।
ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत्॥ ४५॥

अजामुख्या यदुक्तं वै तदेव मम रोचते।
सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी॥ ४६॥

मानुषं मांसमास्वाद्य नृत्यामोऽथ निकुम्भिलाम्।
एवं निर्भर्त्स्यमाना सा सीता सुरसुतोपमा।
राक्षसीभिर्विरूपाभिर्धैर्यमुत्सृज्य रोदिति॥ ४७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्विंशः सर्गः ॥५-२४॥

Popular Posts