महर्षि वाल्मीकि रामायण किष्किंधा कांड सर्ग 30
Maharishi Valmiki Ramayan Kishkindha Kand Sarg 30
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिंशः सर्गः ॥४-३०॥
गृहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः।
वर्षरात्रे स्थितो रामः कामशोकाभिपीडितः॥ १॥
पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्।
शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्॥ २॥
कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्।
दृष्ट्वा कालमतीतं च मुमोह परमातुरः॥ ३॥
स तु संज्ञामुपागम्य मुहूर्तान्मतिमान् नृपः।
मनःस्थामपि वैदेहीं चिन्तयामास राघवः॥ ४॥
दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम्।
सारसारावसंघुष्टं विललापार्तया गिरा॥ ५॥
आसीनः पर्वतस्याग्रे हेमधातुविभूषिते।
शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम्॥ ६॥
सारसारावसंनादैः सारसारावनादिनी।
याऽऽश्रमे रमते बाला साद्य मे रमते कथम्॥ ७॥
पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान्।
कथं सा रमते बाला पश्यन्ती मामपश्यती॥ ८॥
या पुरा कलहंसानां कलेन कलभाषिणी।
बुध्यते चारुसर्वाङ्गी साद्य मे रमते कथम्॥ ९॥
निःस्वनं चक्रवाकानां निशम्य सहचारिणाम्।
पुण्डरीकविशालाक्षी कथमेषा भविष्यति॥ १०॥
सरांसि सरितो वापीः काननानि वनानि च।
तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे॥ ११॥
अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम्।
सुदूरं पीडयेत् कामः शरद्गुणनिरन्तरः॥ १२॥
एवमादि नरश्रेष्ठो विललाप नृपात्मजः।
विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात्॥ १३॥
ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु।
ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम्॥ १४॥
स चिन्तया दुस्सहया परीतं
विसंज्ञमेकं विजने मनस्वी।
भ्रातुर्विषादात् त्वरितोऽतिदीनः
समीक्ष्य सौमित्रिरुवाच दीनम्॥ १५॥
किमार्य कामस्य वशंगतेन
किमात्मपौरुष्यपराभवेन ।
अयं ह्रिया संह्रियते समाधिः
किमत्र योगेन निवर्तते न॥ १६॥
क्रियाभियोगं मनसः प्रसादं
समाधियोगानुगतं च कालम्।
सहायसामर्थ्यमदीनसत्त्वः
स्वकर्महेतुं च कुरुष्व तात॥ १७॥
न जानकी मानववंशनाथ
त्वया सनाथा सुलभा परेण।
न चाग्निचूडां ज्वलितामुपेत्य
न दह्यते वीर वरार्ह कश्चित्॥ १८॥
सलक्षणं लक्ष्मणमप्रधृष्यं
स्वभावजं वाक्यमुवाच रामः।
हितं च पथ्यं च नयप्रसक्तं
ससामधर्मार्थसमाहितं च॥ १९॥
निस्संशयं कार्यमवेक्षितव्यं
क्रियाविशेषोऽप्यनुवर्तितव्यः।
न तु प्रवृद्धस्य दुरासदस्य
कुमार वीर्यस्य फलं च चिन्त्यम्॥ २०॥
अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन्।
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता॥ २१॥
तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम्।
निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः॥ २२॥
दीर्घगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः।
विसृज्य सलिलं मेघाः परिशान्ता नृपात्मज॥ २३॥
नीलोत्पलदलश्यामाः श्यामीकृत्वा दिशो दश।
विमदा इव मातङ्गाः शान्तवेगाः पयोधराः॥ २४॥
जलगर्भा महावेगाः कुटजार्जुनगन्धिनः।
चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः॥ २५॥
घनानां वारणानां च मयूराणां च लक्ष्मण।
नादः प्रस्रवणानां च प्रशान्तः सहसानघ॥ २६॥
अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः।
अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः॥ २७॥
शाखासु सप्तच्छदपादपानां
प्रभासु तारार्कनिशाकराणाम्।
लीलासु चैवोत्तमवारणानां
श्रियं विभज्याद्य शरत्प्रवृत्ता॥ २८॥
सम्प्रत्यनेकाश्रयचित्रशोभा
लक्ष्मीः शरत्कालगुणोपपन्ना।
सूर्याग्रहस्तप्रतिबोधितेषु
पद्माकरेष्वभ्यधिकं विभाति॥ २९॥
सप्तच्छदानां कुसुमोपगन्धी
षट्पादवृन्दैरनुगीयमानः।
मत्तद्विपानां पवनानुसारी
दर्पं विनेष्यन्नधिकं विभाति॥ ३०॥
अभ्यागतैश्चारुविशालपक्षैः
स्मरप्रियैः पद्मरजोऽवकीर्णैः।
महानदीनां पुलिनोपयातैः
क्रीडन्ति हंसाः सह चक्रवाकैः॥ ३१॥
मदप्रगल्भेषु च वारणेषु
गवां समूहेषु च दर्पितेषु।
प्रसन्नतोयासु च निम्नगासु
विभाति लक्ष्मीर्बहुधा विभक्ता॥ ३२॥
नभः समीक्ष्याम्बुधरैर्विमुक्तं
विमुक्तबर्हाभरणा वनेषु।
प्रियास्वरक्ता विनिवृत्तशोभा
गतोत्सवा ध्यानपरा मयूराः॥ ३३॥
मनोज्ञगन्धैः प्रियकैरनल्पैः
पुष्पातिभारावनताग्रशाखैः।
सुवर्णगौरैर्नयनाभिरामै-
रुद्योतितानीव वनान्तराणि॥ ३४॥
प्रियान्वितानां नलिनीप्रियाणां
वने प्रियाणां कुसुमोद्गतानाम्।
मदोत्कटानां मदलालसानां
गजोत्तमानां गतयोऽद्य मन्दाः॥ ३५॥
व्यक्तं नभः शस्त्रविधौतवर्णं
कृशप्रवाहानि नदीजलानि।
कह्लारशीताः पवनाः प्रवान्ति
तमो विमुक्ताश्च दिशः प्रकाशाः॥ ३६॥
सूर्यातपक्रामणनष्टपङ्का
भूमिश्चिरोद्घाटितसान्द्ररेणुः।
अन्योन्यवैरेण समायुताना-
मुद्योगकालोऽद्य नराधिपानाम्॥ ३७॥
शरद्गुणाप्यायितरूपशोभाः
प्रहर्षिताः पांसुसमुत्थिताङ्गाः।
मदोत्कटाः सम्प्रति युद्धलुब्धा
वृषा गवां मध्यगता नदन्ति॥ ३८॥
समन्मथा तीव्रतरानुरागा
कुलान्विता मन्दगतिः करेणुः।
मदान्वितं सम्परिवार्य यान्तं
वनेषु भर्तारमनुप्रयाति॥ ३९॥
त्यक्त्वा वराण्यात्मविभूषितानि
बर्हाणि तीरोपगता नदीनाम्।
निर्भर्त्स्यमाना इव सारसौघैः
प्रयान्ति दीना विमना मयूराः॥ ४०॥
वित्रास्य कारण्डवचक्रवाकान्
महारवैर्भिन्नकटा गजेन्द्राः।
सरस्सुबद्धाम्बुजभूषणेषु
विक्षोभ्य विक्षोभ्य जलं पिबन्ति॥ ४१॥
व्यपेतपङ्कासु सवालुकासु
प्रसन्नतोयासु सगोकुलासु।
ससारसारावविनादितासु
नदीषु हंसा निपतन्ति हृष्टाः॥ ४२॥
नदीघनप्रस्रवणोदकाना-
मतिप्रवृद्धानिलबर्हिणानाम्।
प्लवंगमानां च गतोत्सवानां
ध्रुवं रवाः सम्प्रति सम्प्रणष्टाः॥ ४३॥
अनेकवर्णाः सुविनष्टकाया
नवोदितेष्वम्बुधरेषु नष्टाः।
क्षुधार्दिता घोरविषा बिलेभ्य-
श्चिरोषिता विप्रसरन्ति सर्पाः॥ ४४॥
चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका।
अहो रागवती संध्या जहाति स्वयमम्बरम्॥ ४५॥
रात्रिः शशाङ्कोदितसौम्यवक्त्रा
तारागणोन्मीलितचारुनेत्रा।
ज्योत्स्नांशुकप्रावरणा विभाति
नारीव शुक्लांशुकसंवृताङ्गी॥ ४६॥
विपक्वशालिप्रसवानि भुक्त्वा
प्रहर्षिता सारसचारुपङ्क्तिः ।
नभः समाक्रामति शीघ्रवेगा
वातावधूता ग्रथितेव माला॥ ४७॥
सुप्तैकहंसं कुमुदैरुपेतं
महाह्रदस्थं सलिलं विभाति।
घनैर्विमुक्तं निशि पूर्णचन्द्रं
तारागणाकीर्णमिवान्तरिक्षम्॥ ४८॥
प्रकीर्णहंसाकुलमेखलानां
प्रबुद्धपद्मोत्पलमालिनीनाम्।
वाप्युत्तमानामधिकाद्य लक्ष्मी-
र्वराङ्गनानामिव भूषितानाम्॥ ४९॥
वेणुस्वरव्यञ्जिततूर्यमिश्रः
प्रत्यूषकालेऽनिलसम्प्रवृत्तः।
सम्मूर्छितो गर्गरगोवृषाणा-
मन्योन्यमापूरयतीव शब्दः॥ ५०॥
नवैर्नदीनां कुसुमप्रहासै-
र्व्याधूयमानैर्मृदुमारुतेन।
धौतामलक्षौमपटप्रकाशैः
कूलानि काशैरुपशोभितानि॥ ५१॥
वनप्रचण्डा मधुपानशौण्डाः
प्रियान्विताः षट्चरणाः प्रहृष्टाः।
वनेषु मत्ताः पवनानुयात्रां
कुर्वन्ति पद्मासनरेणुगौराः॥ ५२॥
जलं प्रसन्नं कुसुमप्रहासं
क्रौञ्चस्वनं शालिवनं विपक्वम्।
मृदुश्च वायुर्विमलश्च चन्द्रः
शंसन्ति वर्षव्यपनीतकालम्॥ ५३॥
मीनोपसंदर्शितमेखलानां
नदीवधूनां गतयोऽद्य मन्दाः।
कान्तोपभुक्तालसगामिनीनां
प्रभातकालेष्विव कामिनीनाम्॥ ५४॥
सचक्रवाकानि सशैवलानि
काशैर्दुकूलैरिव संवृतानि।
सपत्ररेखाणि सरोचनानि
वधूमुखानीव नदीमुखानि॥ ५५॥
प्रफुल्लबाणासनचित्रितेषु
प्रहृष्टषट्पादनिकूजितेषु।
गृहीतचापोद्यतदण्डचण्डः
प्रचण्डचापोऽद्य वनेषु कामः॥ ५६॥
लोकं सुवृष्ट्या परितोषयित्वा
नदीस्तटाकानि च पूरयित्वा।
निष्पन्नसस्यां वसुधां च कृत्वा
त्यक्त्वा नभस्तोयधराः प्रणष्टाः॥ ५७॥
दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः।
नवसंगमसव्रीडा जघनानीव योषितः॥ ५८॥
प्रसन्नसलिलाः सौम्य कुरराभिविनादिताः।
चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः॥ ५९॥
अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज।
उद्योगसमयः सौम्य पार्थिवानामुपस्थितः॥ ६०॥
इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज।
न च पश्यामि सुग्रीवमुद्योगं च तथाविधम्॥ ६१॥
असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः।
दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु॥ ६२॥
हंससारसचक्राह्वैः कुररैश्च समन्ततः।
पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण॥ ६३॥
चत्वारो वार्षिका मासा गता वर्षशतोपमाः।
मम शोकाभितप्तस्य तथा सीतामपश्यतः॥ ६४॥
चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम्।
विषमं दण्डकारण्यमुद्यानमिव चाङ्गना॥ ६५॥
प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते।
कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण॥ ६६॥
अनाथो हृतराज्योऽहं रावणेन च धर्षितः।
दीनो दूरगृहः कामी मां चैव शरणं गतः॥ ६७॥
इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः।
अहं वानरराजस्य परिभूतः परंतपः॥ ६८॥
स कालं परिसंख्याय सीतायाः परिमार्गणे।
कृतार्थः समयं कृत्वा दुर्मतिर्नाववुध्यते॥ ६९॥
स किष्किन्धां प्रविश्य त्वं ब्रूहि वानरपुङ्गवम्।
मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम॥ ७०॥
अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम्।
आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः॥ ७१॥
शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम्।
सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः॥ ७२॥
कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये।
तान् मृतानपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते॥ ७३॥
नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे।
द्रष्टुमिच्छसि चापस्य रूपं विद्युद्गणोपमम्॥ ७४॥
घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे।
निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छसि॥ ७५॥
काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमे।
त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज॥ ७६॥
यदर्थमयमारम्भः कृतः परपुरंजय।
समयं नाभिजानाति कृतार्थः प्लवगेश्वरः॥ ७७॥
वर्षाः समयकालं तु प्रतिज्ञाय हरीश्वरः।
व्यतीतांश्चतुरो मासान् विहरन् नावबुध्यते॥ ७८॥
सामात्यपरिषत्क्रीडन् पानमेवोपसेवते।
शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम्॥ ७९॥
उच्यतां गच्छ सुग्रीवस्त्वया वीर महाबल।
मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः॥ ८०॥
न स संकुचितः पन्था येन वाली हतो गतः।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥ ८१॥
एक एव रणे वाली शरेण निहतो मया।
त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम्॥ ८२॥
यदेवं विहिते कार्ये यद्धितं पुरुषर्षभ।
तत् तद् ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः॥ ८३॥
कुरुष्व सत्यं मम वानरेश्वर
प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम्।
मा वालिनं प्रेतगतो यमक्षये
त्वमद्य पश्येर्मम चोदितः शरैः॥ ८४॥
स पूर्वजं तीव्रविवृद्धकोपं
लालप्यमानं प्रसमीक्ष्य दीनम्।
चकार तीव्रां मतिमुग्रतेजा
हरीश्वरे मानववंशवर्धनः॥ ८५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिंशः सर्गः ॥४-३०॥