महर्षि वाल्मीकि रामायण अरण्यकाण्ड सर्ग 56 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Aranya Kand Sarg 56 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अरण्यकाण्ड सर्ग 56
Maharishi Valmiki Ramayan Aranya Kand Sarg 56

श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्पञ्चाशः सर्गः ॥३-५६॥


सा तथोक्ता तु वैदेही निर्भया शोककर्शिता।
तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत॥ १॥

राजा दशरथो नाम धर्मसेतुरिवाचलः।
सत्यसंधः परिज्ञातो यस्य पुत्रः स राघवः॥ २॥

रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः।
दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम॥ ३॥

इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः।
लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् वधिष्यति॥ ४॥

प्रत्यक्षं यद्यहं तस्य त्वया वै धर्षिता बलात्।
शयिता त्वं हतः संख्ये जनस्थाने यथा खरः॥ ५॥

य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः।
राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा॥ ६॥

तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः।
शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः॥ ७॥

असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण।
उत्पाद्य सुमहद् वैरं जीवंस्तस्य न मोक्ष्यसे॥ ८॥

स ते जीवितशेषस्य राघवोऽन्तकरो बली।
पशोर्यूपगतस्येव जीवितं तव दुर्लभम्॥ ९॥

यदि पश्येत् स रामस्त्वां रोषदीप्तेन चक्षुषा।
रक्षस्त्वमद्य निर्दग्धो यथा रुद्रेण मन्मथः॥ १०॥

यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा।
सागरं शोषयेद् वापि स सीतां मोचयेदिह॥ ११॥

गतासुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः।
लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति॥ १२॥

न ते पापमिदं कर्म सुखोदर्कं भविष्यति।
याहं नीता विनाभावं पतिपार्श्वात् त्वया बलात्॥ १३॥

स हि देवरसंयुक्तो मम भर्ता महाद्युतिः।
निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके॥ १४॥

स ते वीर्यं बलं दर्पमुत्सेकं च तथाविधम्।
अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे॥ १५॥

यदा विनाशो भूतानां दृश्यते कालचोदितः।
तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः॥ १६॥

मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम।
आत्मनो राक्षसानां च वधायान्तःपुरस्य च॥ १७॥

न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्डमण्डिता।
द्विजातिमन्त्रसम्पूता चण्डालेनावमर्दितुम्॥ १८॥

तथाहं धर्मनित्यस्य धर्मपत्नी दृढव्रता।
त्वया स्प्रष्टुं न शक्याहं राक्षसाधम पापिना॥ १९॥

क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यशः।
हंसी सा तृणमध्यस्थं कथं द्रक्ष्येत मद्गुकम्॥ २०॥

इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा।
नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस॥ २१॥

न तु शक्यमपक्रोशं पृथिव्यां दातुमात्मनः।
एवमुक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः॥ २२॥

रावणं जानकी तत्र पुनर्नोवाच किंचन।
सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्॥ २३॥

प्रत्युवाच ततः सीतां भयसंदर्शनं वचः।
शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि॥ २४॥

कालेनानेन नाभ्येषि यदि मां चारुहासिनि।
ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः॥ २५॥

इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः।
राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्॥ २६॥

शीघ्रमेव हि राक्षस्यो विरूपा घोरदर्शनाः।
दर्पमस्यापनेष्यन्तु मांसशोणितभोजनाः॥ २७॥

वचनादेव तास्तस्य सुघोरा घोरदर्शनाः।
कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन्॥ २८॥

स ताः प्रोवाच राजासौ रावणो घोरदर्शनाः।
प्रचल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम्॥ २९॥

अशोकवनिकामध्ये मैथिली नीयतामिति।
तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता॥ ३०॥

तत्रैनां तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम्।
आनयध्वं वशं सर्वा वन्यां गजवधूमिव॥ ३१॥

इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः।
अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य तु॥ ३२॥

सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम्।
सर्वकालमदैश्चापि द्विजैः समुपसेविताम्॥ ३३॥

सा तु शोकपरीताङ्गी मैथिली जनकात्मजा।
राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा॥ ३४॥

शोकेन महता ग्रस्ता मैथिली जनकात्मजा।
न शर्म लभते भीरुः पाशबद्धा मृगी यथा॥ ३५॥

न विन्दते तत्र तु शर्म मैथिली
विरूपनेत्राभिरतीव तर्जिता।
पतिं स्मरन्ती दयितं च देवरं
विचेतनाभूद् भयशोकपीडिता॥ ३६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षट्पञ्चाशः सर्गः ॥३-५६॥

५६अ प्रक्षिप्तः


प्रवेशितायां सीतायां लङ्कां प्रति पितामहः।
तदा प्रोवाच देवेन्द्रं परितुष्टं शतक्रतुम्॥ १॥

त्रैलोक्यस्य हितार्थाय रक्षसामहिताय च।
लङ्कां प्रवेशिता सीता रावणेन दुरात्मना॥ २॥

पतिव्रता महाभागा नित्यं चैव सुखैधिता।
अपश्यन्ती च भर्तारं पश्यन्ती राक्षसीजनम्॥ ३॥

राक्षसीभिः परिवृता भर्तृदर्शनलालसा।
निविष्टा हि पुरी लङ्का तीरे नदनदीपतेः॥ ४॥

कथं ज्ञास्यति तां रामस्तत्रस्थां तामनिन्दिताम्।
दुःखं संचिन्तयन्ती सा बहुशः परिदुर्लभा॥ ५॥

प्राणयात्रामकुर्वाणा प्राणांस्त्यक्ष्यत्यसंशयम्।
स भूयः संशयो जातः सीतायाः प्राणसंक्षये॥ ६॥

स त्वं शीघ्रमितो गत्वा सीतां पश्य शुभाननाम्।
प्रविश्य नगरीं लङ्कां प्रयच्छ हविरुत्तमम्॥ ७॥

एवमुक्तोऽथ देवेन्द्रः पुरीं रावणपालिताम्।
आगच्छन्निद्रया सार्धं भगवान् पाकशासनः॥ ८॥

निद्रां चोवाच गच्छ त्वं राक्षसान् सम्प्रमोहय।
सा तथोक्ता मघवता देवी परमहर्षिता॥ ९॥

देवकार्यार्थसिद्ध्यर्थं प्रामोहयत राक्षसान्।
एतस्मिन्नन्तरे देवः सहस्राक्षः शचीपतिः॥ १०॥

आससाद वनस्थां तां वचनं चेदमब्रवीत्।
देवराजोऽस्मि भद्रं ते इह चास्मि शुचिस्मिते॥ ११॥

अहं त्वां कार्यसिद्‍ध्यर्थं राघवस्य महात्मनः।
साहाय्यं कल्पयिष्यामि मा शुचो जनकात्मजे॥ १२॥

मत्प्रसादात् समुद्रं स तरिष्यति बलैः सह।
मयैवेह च राक्षस्यो मायया मोहिताः शुभे॥ १३॥

तस्मादन्नमिदं सीते हविष्यान्नमहं स्वयम्।
स त्वां संगृह्य वैदेहि आगतः सह निद्रया॥ १४॥

एतदत्स्यसि मद्धस्तान्न त्वां बाधिष्यते शुभे।
क्षुधा तृषा च रम्भोरु वर्षाणामयुतैरपि॥ १५॥

एवमुक्ता तु देवेन्द्रमुवाच परिशङ्किता।
कथं जानामि देवेन्द्रं त्वामिहस्थं शचीपतिम्॥ १६॥

देवलिङ्गानि दृष्टानि रामलक्ष्मणसंनिधौ।
तानि दर्शय देवेन्द्र यदि त्वं देवराट् स्वयम्॥ १७॥

सीताया वचनं श्रुत्वा तथा चक्रे शचीपतिः।
पृथिवीं नास्पृशत् पद‍्भ्यामनिमेषेक्षणानि च॥ १८॥

अरजोऽम्बरधारी च न म्लानकुसुमस्तथा।
तं ज्ञात्वा लक्षणैः सीता वासवं परिहर्षिता॥ १९॥

उवाच वाक्यं रुदती भगवन् राघवं प्रति।
सह भ्रात्रा महाबाहुर्दिष्ट्या मे श्रुतिमागतः॥ २०॥

यथा मे श्वशुरो राजा यथा च मिथिलाधिपः।
तथा त्वामद्य पश्यामि सनाथो मे पतिस्त्वया॥ २१॥

तवाज्ञया च देवेन्द्र पयोभूतमिदं हविः।
अशिष्यामि त्वया दत्तं रघूणां कुलवर्धनम्॥ २२॥

इन्द्रहस्ताद् गृहीत्वा तत् पायसं सा शुचिस्मिता।
न्यवेदयत भर्त्रे सा लक्ष्मणाय च मैथिली॥ २३॥

यदि जीवति मे भर्ता सह भ्रात्रा महाबलः।
इदमस्तु तयोर्भक्त्या तदाश्नात् पायसं स्वयम्॥ २४॥

इतीव तत् प्राश्य हविर्वरानना
जहौ क्षुधादुःखसमुद्भवं च तम्।
इन्द्रात् प्रवृत्तिम् उपलभ्य जानकी
काकुत्स्थयोः प्रीतमना बभूव॥ २५॥

स चापि शक्रस्त्रिदिवालयं तदा
प्रीतो ययौ राघवकार्यसिद्धये।
आमन्त्र्य सीतां स ततो महात्मा
जगाम निद्रासहितः स्वमालयम्॥ २६॥

Popular Posts