महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 29 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 29 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 29 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 29 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥२-२९॥


एतत् तु वचनं श्रुत्वा सीता रामस्य दुःखिता।

प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत्॥ १॥


ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति।

गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृता॥ २॥


मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा।

चमराः सृमराश्चैव ये चान्ये वनचारिणः॥ ३॥


अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव।

रूपं दृष्ट्वापसर्पेयुस्तव सर्वे हि बिभ्यति॥ ४॥


त्वया च सह गन्तव्यं मया गुरुजनाज्ञया।

त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्॥ ५॥


नहि मां त्वत्समीपस्थामपि शक्रोऽपि राघव।

सुराणामीश्वरः शक्तः प्रधर्षयितुमोजसा॥ ६॥


पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्।

काममेवंविधं राम त्वया मम निदर्शितम्॥ ७॥


अथापि च महाप्राज्ञ ब्राह्मणानां मया श्रुतम्।

पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने॥ ८॥


लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे।

वनवासकृतोत्साहा नित्यमेव महाबल॥ ९॥


आदेशो वनवासस्य प्राप्तव्यः स मया किल।

सा त्वया सह भर्त्राहं यास्यामि प्रिय नान्यथा॥ १०॥


कृतादेशा भविष्यामि गमिष्यामि त्वया सह।

कालश्चायं समुत्पन्नः सत्यवान् भवतु द्विजः॥ ११॥


वनवासे हि जानामि दुःखानि बहुधा किल।

प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः॥ १२॥


कन्यया च पितुर्गेहे वनवासः श्रुतो मया।

भिक्षिण्याः शमवृत्ताया मम मातुरिहाग्रतः॥ १३॥


प्रसादितश्च वै पूर्वं त्वं मे बहुतिथं प्रभो।

गमनं वनवासस्य कांक्षितं हि सह त्वया॥ १४॥


कृतक्षणाहं भद्रं ते गमनं प्रति राघव।

वनवासस्य शूरस्य मम चर्या हि रोचते॥ १५॥


शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा।

भर्तारमनुगच्छन्ती भर्ता हि परदैवतम्॥ १६॥


प्रेत्यभावे हि कल्याणः संगमो मे सदा त्वया।

श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम्॥ १७॥


इहलोके च पितृभिर्या स्त्री यस्य महाबल।

अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा॥ १८॥


एवमस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम्।

नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना॥ १९॥


भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः।

नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम्॥ २०॥


यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि।

विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात्॥ २१॥


एवं बहुविधं तं सा याचते गमनं प्रति।

नानुमेने महाबाहुस्तां नेतुं विजनं वनम्॥ २२॥


एवमुक्ता तु सा चिन्तां मैथिली समुपागता।

स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः॥ २३॥


चिन्तयन्तीं तदा तां तु निवर्तयितुमात्मवान्।

क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत्॥ २४॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥२-२९॥

Popular Posts