महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 111
Maharishi Valmiki Ramayan Ayodhya Kand Sarg 111
वसिष्ठस्तु तदा राममुक्त्वा राजपुरोऺहित: ।
अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वच: ।। २.१११.१ ।।
पुरुषस्येह जातस्य भवन्ति गुरवस्त्रय: ।
आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ।। २.१११.२ ।।
पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।
प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ।। २.१११.३ ।।
सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप ।
मम त्वं वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ।। २.१११.४ ।।
इमा हि ते परिषद: श्रेणयश्च द्विजास्तथा ।
एषु तात चरन् धर्मं नातिवर्त्ते: सताङ्गतिम् ।। २.१११.५ ।।
वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् ।
अस्यास्तु वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ।। २.१११.६ ।।
भरतस्य वच: कुर्वन् याचमानस्य राघव ।
आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ।। २.१११.७ ।।
एवं मधुरमुक्तस्तु गुरुणा राघव: स्वयम् ।
प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभ: ।। २.१११.८ ।।
यन्मातापितरौ वृत्तं तनये कुरुत: सदा ।
न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ।। २.१११.९ ।।
यथाशक्ति प्रदानेन स्नापनोच्छादनेन च ।
नित्यं च प्रियवादेन तथा संवर्द्धनेन च ।। २.१११.१० ।।
स हि राजा जनयिता पिता दशरथो मम ।
आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ।। २.१११.११ ।।
एवमुक्तस्तु रामेण भरत: प्रत्यनन्तरम् ।
उवाच परमोदार: सूतं परमदुर्मना: ।। २.१११.१२ ।।
इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे ।
आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ।। २.१११.१३ ।।
अनाहारो निरालोको धनहीनो यथा द्विज: ।
शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ।। २.१११.१४ ।।
स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मना: ।
कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ।। २.१११.१५ ।।
तमुवाच महातेजा रामो राजर्षिसत्तम: ।
किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ।। २.१११.१६ ।।
ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति ।
न तु मूर्द्धाभिषिक्तानां विधि: प्रत्युपवेशने ।। २.१११.१७ ।।
उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।
पुरवर्य्यामित: क्षिप्रमयोध्यां याहि राघव ।। २.१११.१८ ।।
आसीनस्त्वेव भरत: पौरजानपदं जनम् ।
उवाच सर्वत: प्रेक्ष्य किमार्यं नानुशासथ ।। २.१११.१९ ।।
ते तमूचुर्महात्मानं पौरजानपदा जना: ।
काकुत्स्थमभिजानीम: सम्यग्वदति राघव: ।। २.१११.२० ।।
एषो ऽपि हि महाभाग: पितुर्वचसि तिष्ठति ।
अत एव न शक्ता: स्मो व्यावर्त्तयितुमञ्जसा ।। २.१११.२१ ।।
तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ।
एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ।। २.१११.२२ ।।
एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव ।
उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ।। २.१११.२३ ।।
अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ।
श्रृण्वन्तु मे परिषदो मन्त्रिण: श्रेणयस्तथा ।। २.१११.२४ ।।
न याचे पितरं राज्यं नानुशासामि मातरम् ।
आर्यं परमधर्मज्ञं नानुजानामि राघवम् ।। २.१११.२५ ।।
यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वच: ।
अहमेव निवत्स्यामि चतुर्दश समा वने ।। २.१११.२६ ।।
धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मित: ।
उवाच राम: सम्प्रेक्ष्य पौरजानपदं जनम् ।। २.१११.२७ ।।
विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम ।
न तल्लोपयितुं शक्यं मया वा भरतेन वा ।। २.१११.२८ ।।
अपधिर्न मया कार्य्यो वनवासे जुगुप्सित: ।
युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ।। २.१११.२९ ।।
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् ।
सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ।। २.१११.३० ।।
अनेन धर्मशीलेन वनात् प्रत्यागत: पुन: ।
भ्रात्रा सह भविष्यामि पृथिव्या: पतिरुत्तम: ।। २.१११.३१ ।।
वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् ।
अनृतन्मोचयानेन पितरं तं महीपतिम् ।। २.१११.३२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततम: सर्ग: ।। १११ ।।